________________
सप्तमो नर्तनाध्यायः वैतालिकश्चारणश्च कोड्लाटिकसभासदः ॥ ४७॥ सभापतिः सभायाश्च निवेशो रसलक्षणम् ।
भावलक्षणमित्यस्मिन्नध्याये महे कमात् ॥ ४८ ॥ अथ शिरोभेदाःधुतं विधुतमाधूतमवधूतं च कम्पितम् । आकम्पितोद्वाहिते च परिवाहितमश्चितम् ॥ ४९ ॥
निहश्चितं परावृत्तमुक्षिप्ताधोमुखे तथा । नोद्देशो द्रष्टव्यः । एवं, 'न्यायाः सपविचाराश्च' इत्यत्रापि प्रविचाराणां न्यायाङ्गत्वं द्रष्टव्यम् ॥ ३८-४८ ॥
(सु०) अत्र नृत्ताध्याये अभिधेयान् पदार्थान् संगृह्णाति-अङ्गानीति । शरीरादीनि षडङ्गानि भवन्ति । केचित् स्कन्धावपि सप्तमङ्ग कथयन्ति | प्रत्यङ्गानि ग्रीवादीनि षट् । अपरे तु मणिबन्धादीनि त्रीणि प्रत्यङ्गान्याधिकमाहुः । दृष्ट्यादीनि शिर आधुपाङ्गानि द्वादश; अङ्गान्तरेषु तु पाणिगुल्फादीन्यष्टौ करचरणयोरुपाङ्गानि, चत्वारि मुखरागादीनि; करयोः प्रचाराः, करकरणानि ; हस्तक्षोत्राणि ; नृत्तकरणानि ; उत्प्लुतिकरणानि ; सरेचका अङ्गहाराः; शुद्धचार्यः; देशीचार्यः; स्थानकानि; कैशिक्यादयो वृत्तयः; सप्रविचारा न्यायाः; मण्डलानि; चाल्यादीनि लास्याङ्गानि ; रेखालक्षणम् ; श्रमविधिः ; पात्रलक्षणम् ; पात्रगुणा:; पात्रदोषाः; पात्रमण्डनं च ; उपाध्यायलक्षणम् ; संप्रदायनिरूपणम् ; संप्रदायगुणाः, दोषाश्च ; संप्रदायस्य शुद्धपद्धतिः ; गौण्डलीविधिः ; पेरणीलक्षणम् ; पेरणीपद्धतिः ; आचार्यलक्षणम् ; नटनर्तकवैतालिकचारणकोबाटिकसभासदानां लक्षणम् ; सभापतिलक्षणम् ; सभासंनिवेशनिरूपणम् ; नवरसलक्षणम् ; व्यभिचारादिभावानां लक्षणम् ; सात्त्विकादिभावानां निरूपणम् ; नाटकादिनिर्माणे नियमनिरूपणमित्येतानि अस्मिन् नृत्ताध्याये कथयाम इति ॥ ३८-४८ ॥
(क०) तत्राङ्गेषु प्रथमोद्दिष्टस्य शिरसो भेदानुद्दिशति-धुतं विधुतमित्यादि ॥ ४९-५१ ॥
Scanned by Gitarth Ganga Research Institute