________________
संगीतरत्नाकरः प्रत्यङ्गानि पुनीवा बाहू पृष्ठं तथोदरम् । ऊरू जो षडित्याहुरपरे मणिबन्धकौ ॥ ३९ ॥ जानुनी भूषणानीति त्रयमत्राधिकं जगुः । दृष्टिभ्रूपुटताराश्च कपोलौ नासिकानिलः ॥ ४० ॥ अधरो दशना जिह्वा चिबुकं वदनं तथा । उपाङ्गानि द्वादशेति शिरस्यङ्गान्तरेषु तु ।। ४१॥ पाणिगुल्फो तथाङ्गुल्यः करयोः पादयोस्तले । मुखरागश्च करयोः प्रचाराः करणानि च ॥ ४२ ॥ कर्माणि पाणिक्षेत्राणि करणानि द्विधा ततः । शृद्धान्युत्प्लुतिपूर्वाणि चाङ्गहाराः सरेचकाः ॥ ४३ ॥ चार्यः शुद्धाश्च देशीस्थाः स्थानकान्यथ वृत्तयः । न्यायाः समविचाराश्च मण्डलान्यखिलान्यपि ॥ ४४ ॥ लास्याङ्गानि ततो रेखा श्रमः पात्रस्य लक्षणम् । गुणदोषा मण्डनं च तस्योपाध्यायलक्षणम् ॥ ४५ ॥ संप्रदाया गुणा दोषास्तस्य शुद्धा च पद्धतिः । गौण्डल्याश्च विधिः सम्यग्लक्ष्म पेरणिनस्ततः ॥ ४६ ॥
तत्पद्धतिरथाचार्यों नटनर्तकलक्षणम् । त्यर्थः । पाणिगुरुफकराङ्गुलिपादाङ्गुलिपादतलानि पञ्चोपाङ्गानि ज्ञेयानि । 'तथा अमुल्यः करयोः पादयोस्तले' इत्युद्देशे तु करयोरङ्गुल्य इति योजनीयम् । तले इति तु संनिहितयोः पादयोरेव योजनीयम् । 'करयोस्तले' इति तु तयोः करणप्रचारभेदकत्वेन वक्ष्यमाणत्वादिति भावः । सरेचका इति । रेचकानामङ्गहराङ्गतयैव प्रयोगः, न पार्थक्येनेति द्योतयितुमङ्गहारविशेषणत्वे
Scanned by Gitarth Ganga Research Institute