________________
सप्तमो नर्तनाध्यायः तस्य शाखाङ्कुरो नृत्तं प्रधानं त्रितयं मतम् । तत्र शाखेति विख्याता विचित्रा करवर्तना ॥ ३५ ॥ अङ्कुरो भूतवाक्यार्थमुपजीव्य प्रवर्तितः। वर्तना सा भवेत्सूची भाविवाक्योपजीवनात् ।। ३६ ॥ करणैरङ्गहारैश्च साधितं नृत्तमुच्यते । नात्रोपयोगिनौ सूच्यङ्कुरायुक्तौ प्रसङ्गतः ॥ ३७॥ अङ्गान्यत्र शिरो हस्तौ वक्षः पार्थे कटीतटम् । पादाविति षडुक्तानि स्कन्धावप्यपरे जगुः ॥ ३८ ॥
(क०) आङ्गिकाभिनयम्य भेदान् दर्शयति- तस्य शाखाकुर , प्रधानमिति । आङ्गिकाभिनयोक्ततराङ्गापेक्षया शाखादेः प्राधान्यमित्यर्थः । प्रसङ्गात्सूची लक्षयति- सा भवेत्सूचीति । नृत्तं लक्षयति- करणैरियदि । ननु लक्षितस्यापि नृतस्य पुनर्लक्षणं कथमिति चेत्, उच्यते । पूर्व सर्वाभिनयशून्यमाझिकाभिनयप्रकारेण प्रवर्तितं गात्रविक्षेपमात्रं नृत. मित्युक्तम् । इदानीं त्वाङ्गिकाभिनयस्य आङ्गिकत्वेन मध्ये प्रयोज्यं करणाङ्गहारनिर्वृत्तं नृत्तमुक्तमिति भेदो द्रष्टव्यः ॥ ३५-३७ ॥
(सु०) आङ्गिकस्य भेदान् लक्षयति---तस्येति । तस्य ; आङ्गिकाभिनयस्य शाखाङ्कुरनृत्तानि प्रधानानि । तेषां लक्षणमाह-तत्रेति । विचित्रकरव्यापार: शाखा, भूतवाक्यार्थमुपजीव्य प्रवर्तिता वर्तनाव्यापारोऽङ्कुरः । सैव वर्तना भविष्यद्वाक्योपजीवनात् सूचीत्युच्यते । करणः अङ्गहारैश्च यत्साधितं तन्तृत्तमुच्यते । यद्यपि सूच्याकुरयोरत्रोपयोगौ न स्तः । तथापि, प्रसङ्गत: प्रयोगेणोक्त इति द्रष्टव्यम् ॥ ३५-३७ ॥
(क०) अस्मिन् नृत्ताध्याये संग्राह्मान् पदार्थाननुक्रमेणोद्दिशतिभङ्गान्यत्रेत्यादिना । अङ्गान्तरेष्विति । शिरसो व्यतिरिक्तेषु करणयोरि
Scanned by Gitarth Ganga Research Institute