________________
१४
संगीतरत्नाकर:
विषमं विकटं लध्वित्येतद्भेदत्रयं विदुः । नृत्तस्य तत्र विषमं स्याद्रज्जुभ्रमणादिकम् ॥ ३१ ॥ विरूपवेषावयवव्यापारं विकटं मतम् । उपेतं करणैरल्पैरञ्चिताद्यैर्लघु स्मृतम् ।। ३२ ।। नाटकस्थितवाक्यार्थपदार्थाभिनयात्मकम् । तदाद्यभरतेनोक्तं रसभावसमन्वितम् ॥ ३३ ॥ नाट्यं तन्नाट केष्वेवोपयुक्तं तद्वतानतः । विहाय त्रीनभिनयानाङ्गिकोऽत्राभिधीयते ॥ ३४ ॥
(क०) प्रसङ्गान्नृत्तस्यैवान्यद्भेदत्रयं दर्शयति- विषममित्यादि । अल्पैरञ्चिताद्यैरिति । क्रियावैचित्र्याभावात् अञ्चितादीनि नृत्य करणानि 1 अल्पानि भवन्ति ॥ ३१, ३२ ॥
-
(सु० ) मतान्तरेण नृत्तस्य भेदत्रयं विभज्य लक्षयति – विषममिति । तत्र ऋभ्रमणादिकं विषममुच्यते । विरुद्धरूपवेषावयवक्रियादिभिर्युक्तं विकटम्, यथा पेरण्यादिवत् । अञ्चिताद्यः अल्पै. करणैर्युक्तं लध्वित्युच्यते ; यथा उत्सवादौ ग्राम्ययोषितामिति ॥ ३१, ३२ ॥
(क०) अत्र नृतेषूपयोगित्वेनाङ्गिकाभिनयस्य स्वरूपं प्रपञ्चयिष्यन्नाट - काद्युपयोगित्वमात्रेण नृत्तानुपयोगिनां वाचिकादीनामप्रपञ्चने हेतुं दर्शयति - नाटकस्थितेत्यादि । वाक्यार्थाभिनयो रसाभिनय: ; पदार्थाभिनयो भावाभिनयः । अत्र नाटकशब्दः प्रकरणाद्युपलक्षणम् । तेन ' नाटकेष्वेव ' इत्यत्र नाटकादिविति द्रष्टव्यम् । तद्गतान् अभिनयानिति । तद्गतान् ; नाट्यगतान् वाचिकसात्विकाहार्यान् ॥ ३३, ३४ ॥
(सु०) नाटकेति । नाटके स्थितो यो वाक्यार्थः, पदार्थश्च अभिनयात्मकं रसभावसमन्वितं नाट्यं संगीताद्युपयुक्तमिति, तदुपयुक्तानाहार्याद्यभिनयत्रयं मुक्त्वा आङ्गिकः कर्तव्य इति ॥ ३३, ३४ ॥
Scanned by Gitarth Ganga Research Institute