________________
सप्तमो नर्तनाध्यायः ताण्डवं लास्यमित्येतद् द्वयं देवा निगद्यते ॥ २८ ॥ वर्धमानासारिताधैर्गीतैस्तत्तद्धृवायुतम् । करणैरङ्गहारैश्च प्राधान्येन प्रवर्तितम् ॥ २९ ॥ तण्डूक्तमुदतपायप्रयोगं ताण्डवं मतम् । लास्यं तु सुकुमाराङ्गं मकरध्वजवर्धनम् ॥ ३० ॥
(सु०) नृत्तलक्षणमाह-गात्रेति । अभिनयं विना केवलगात्रविक्षेपो नृत्तमित्युच्यते ॥ -२७, २७- ॥
(क०) अथ नृत्यनृत्तयोरवान्तरभेदौ दर्शयति-ताण्डवमित्यादि । एतद् द्वयम् ; एतयोः संनिहितयोः नृतनृत्ययोः द्वयम् । तत्र ताण्डवं लक्षयति-वर्धमानेत्यादि । वर्धमानादीनि गीतानि मद्रकादिषूक्तानि द्रष्टव्यानि । तत्तद्धृवायुतमिति । सा सा ध्रवा तत्तद्धृवा प्रावेशिक्यादिका, तया युक्तम् । प्रावेशिक्यादयो ध्रवाश्च भारतीये धुवाध्याये द्रष्टव्याः । करणैः; तलपुष्पपुटादिभिः वक्ष्यमाणैः नृत्तकरणैः; अङ्गहारैः; स्थिरहस्तादिभिश्च । प्राधान्येनेति । क्वचित्करणाङ्गहारक्रमं हित्वापीत्यर्थः । उद्धतप्रायप्रयोगमिति ताण्डवस्यासाधारणं लक्षणम् । इतरस्य तु लक्षणांशस्य साधारण्यसंभवात् । तण्डूक्तमिति संज्ञाप्रवृत्तिनिमित्तकथनम् । लास्यस्यासाधारणं लक्षणमाह-लास्यं त्वित्यादि ॥ -२८-३० ॥
(सु०) नृत्तनृत्ययोरवान्तरभेदो लक्षयति-ताण्डवमिति । एतद् द्वयं नृत्तनृत्ययोर्द्वयम् , ताण्डवलास्यभेदेन द्वधा निगद्यते । तयोर्लक्षणताहवर्धमानेत्यादि । तालाध्यायोक्तैः वर्धमानादिभिः गीतैः, प्रादेशिक्यादिभिः ध्रुवादिभिः संयुक्तैः करणः, अङ्गहारैश्च प्राधान्येन प्रवर्तितं, तण्डुना प्रोक्तम्, उद्धतप्रचुरप्रयोगेण च संयुक्त ताण्डवमित्युच्यते । लास्यं तु सुकुमारैः अङ्गेयुक्तं मकरध्वजवर्धनमिति ॥ -२८-३० ॥
Scanned by Gitarth Ganga Research Institute