________________
१२
संगीतरत्नाकरः गात्रविक्षेपमात्रं तु सर्वामिनयवर्जितम् ॥ २७ ॥
आङ्गिकोक्तमकारेण नृत्तं नृत्तविदो विदुः । मानमानिकादिभिरित्यवगमयति । तेन आनिकादिषु चतुर्वपि प्राप्तेषु बहुवचनस्य त्रित्वे पर्यवसानात् त्रय एवेत्यवधारणेन तत्रैको निवर्तनीयः । निवान्तरस्याप्रतीतेः । तत्र वाचिकादिषु कस्य निवृत्तिरित्याकाङ्क्षायां यदि वाचिको निवत्येत, तदा आङ्गिकस्योपजीव्यत्वाभावादप्रवृत्तिरेव स्यात् । अतो यत्राङ्गिकस्तत्र वाचिकोऽभ्युपेयः । सात्त्विकाहार्ययोर्मध्ये सात्त्विकस्यैव आझिके अन्तरङ्गत्वेनोपादेयत्वे पारिशेष्याहिरङ्ग आहार्य एव निवर्तनीयो भवति । भावानेवेत्यवधारणेन रसास्तदाभासाश्च निवर्त्यन्ते । एतदुक्तं भवति-" आहार्याभिनयं मुक्त्वा आङ्गिकवाचिकसात्त्विकैरुपेतमतो भावानामेवाभिव्यञ्जकं यन्नर्तनं तन्नृत्यम्" इति । तथाचोक्तं भावप्रकाशकृता;
" वागङ्गसत्त्वाभिनया भावाः स्युर्नाट्यकर्मणि ।
रसोऽभिनेयो वागङ्गसत्त्वाहार्यसमुच्चयात् ॥" इति । नृत्यवेदिनां मार्गशब्देन प्रसिद्धमिति । ते नृत्यं मार्गशब्देन व्यपदिशन्तीत्यर्थः ॥ -२६, २६ ॥
(सु०) एवं नाटयं लक्षयित्वा नृत्यनृत्ते लक्षयति-आङ्गिकेति । आङ्गिकैरेव अभिनयैः शिर आदिभिः यद् भावान् स्थायिनो व्यभिचारिणो वा व्यनक्ति, तत् नृत्यज्ञैः मार्ग इत्युज्यते ॥ -२६, २६॥
(क०) अथ नृत्तं लक्षयति-गात्रविक्षेपमात्रं त्विति । सर्वाभि नयवर्जितम् ; आङ्गिकादिचतुर्विधाभिनयवर्जितम् । आङ्गिकोक्तमकारेणेति। आलिकाभिनये अङ्गप्रत्यङ्गोपाङ्गानां यः प्रकार उक्तः, तेन प्रकारेण गात्रविक्षेपमात्रं तु नृत्तविदो नृत्तं विदुः । तुशब्दो नृतस्य नाट्यनृताभ्यां वैलक्षण्यद्योतनाय ॥ -२७, २७- ॥
Scanned by Gitarth Ganga Research Institute