________________
सप्तमो नर्तनाध्यायः
आङ्गिकाभिनयैरेव भावानेव व्यनक्ति यत् || २६ ॥ तन्नृच्यं मार्गशब्देन प्रसिद्धं नृत्यवेदिनाम् ।
११
द्वेष्टितव्यावर्तित परिवर्तिताख्यैः चतुर्भिः वक्ष्यमाणैः करणैः उपलक्षिता । अन्या अंशैकदेशेन लोकमुपजीवन्त्येव प्रवर्तत । लोकायत्तस्वभावेत्यर्थः । एवं ;
“हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः । जनान्तिकं प्रयोक्तव्यमपवारितकं तथा ॥
19
इत्यादि मुनिना यदुक्तं तत्सर्वमपि यथायोगं नाट्य धर्मीद्वये द्रष्टव्यम् । एवमाङ्गकाभिनये धर्मीणां चतुष्टयं दर्शितम् । वाचिकादावपि यथासंभव - मूहनीयम् । वाचिकाभिनयेऽपि केवलवाक्योच्चारणं लोकधर्मी; रागयुक्तवाक्याच्चारणं नाट्यधर्मी । आहार्याभिनयेऽपि हारके यूगदिभूषणं लोकधर्मी; फूकृतं ध्वजयानादिभूषणं नाट्यधर्मी । सात्विकाभिनयेऽपि नटेन भावयित्वा स्वरूपतो दर्शिताः स्तम्भादयो लोकधर्मी; त एव साक्षात्कृता हस्ताभिनयेन दर्शिता नाट्यधर्मी । चित्तवृत्त्यर्पिकादयोऽवान्तरभेदा अपि वाचिकादिषु यथासंभवं मतिमद्भिरुन्नेयाः ॥ २४, २५- ॥
(सु० ) एतयोर्लक्षणमाह-आश्रित्येति । तत्रैका वक्ष्यमाणां कैशिक वृत्ति, तद्योग्यां; नाटयोपयोगिनीमाश्रित्य, लोकिकीं शोभां या करोति सैका चित्तवृत्त्यर्पिका । अन्या आवेष्टितादिभिः वक्ष्यमाणैः चतुर्भिः करणैः, बाह्यवस्त्वनुकारिणीभेदेन अंशैकदेशेन लोकमुपजीवन्त्येव प्रवर्तते । इदमेव लोकधर्म्या भेदद्वयं नाट्यधर्म्यामतिदिशति - नाट्यधर्म्या इति ॥ २४, २५- ॥
(क० ) अथ नृत्यं लक्षयति- आङ्गिकाभिनयैरेवेत्यादि । यव; नर्तनम्, आङ्गिकाभिनयैरेव भावानेव व्यनक्ति, तन्नृत्यमिति संबन्ध: । अत्र आङ्गिकाभिनयैरिति बहुवचनमाङ्गिकावान्तरभेदविवक्षाभावादनुपपद्य
Scanned by Gitarth Ganga Research Institute