________________
संगीतरत्नाकरः आश्रित्य कैशिकी वृत्तिमेका नाटयोपयोगिनीम् ॥ २४ ॥ तद्योग्यां लौकिकी शोभां करोत्यावेष्टितादिभिः । अंशेनैवोपजीवन्ती लोकमन्या प्रवर्तते ॥ २५ ॥ नाट्यधा अपि प्राज्ञा भेदद्वन्द्वमिदं जगुः ।
(मु०) तस्य द्विविधेतिकर्तव्यतामाह-इतिकर्तव्यतेति । इतिकर्तव्यता नाम प्रकार नियमविशेषः । सा द्विविधा, लोकधर्मी, नाट्यधर्मी चेति । एते अपि द्विप्रकारे । तदेव द्वैविध्ये लोकधा आह-चित्तवृत्त्येति । लोकधा चित्तवृत्त्यर्पिकेत्येको भेदः, द्वितीयस्तु बाह्यवस्त्वनुकारिणीति ॥ -२२, २३- ॥
(क०) नाट्यधा अपि भेदद्वयमाह-- आश्रित्येत्यादि । तत्रैका नाट्योपयोगिनी कैशकी वृत्तिमाश्रित्य तद्योग्यां लौककी शोभां करोतीत्यन्वयः । कैशिकीमिति;
'वागङ्गाभिनयानां या सौकुमार्येण निर्मिता ।
उल्लमद्गीतनृत्ताव्या शृङ्गाररसनिर्भरा ।
निशङ्कः कशिकी ब्रूत तां सौन्दर्येकजीविताम् ।' इति कैशकीलक्षणं वक्ष्यति । अत एव नाट्योपयोगिनी ; नाट्ये अवस्थानुकरण उपयोगोऽस्या अस्तीति तथोक्ता । पुरुषस्यापि लोके व्यवहारानुकरणदशायां मार्दवमपेक्ष्यत इति भावः । यथा लोके यः कश्चन पुरुषो यं कंचनाहितं पुरुषं लगुडादिना प्रहृनवान, तत्साक्षिभूगोऽन्यस्तमनुकरोति, अनेनैवं प्रहृतमिति । तत्र'नुकरणस्य आरोपितत्वेनार्थक्रियाभावात् मृदुत्वमेव तस्य दृश्यते । अतः सौकुमार्यात्मिका कैशिकी नाट्योपयोगिनी भवति, ताम् आश्रित्य, तद्योग्यां नाटयोपयोगिनी लोकिकी शोभां करोति । अन्यां नाट्यधर्मीमाह-आवेष्टितादिभिरित्यादि । आवेष्टितो
Scanned by Gitarth Ganga Research Institute