________________
सप्तमो नर्तनाध्यायः आहार्यों हारकेयूरकिरीटादिविभूषणम् ॥ २१ ॥ सात्त्विकः सात्त्विकैर्भावैर्भावुकेन विभावितः । इतिकर्तव्यता तस्य द्विविधा परिकीर्तिता ॥ २२ ॥ लोकधर्मी नाट्यधर्मीत्येते च द्विविधे पुनः । चित्तवृत्त्यर्पिका काचिद्वाह्यवस्त्वनुकारिणी ॥ २३ ॥
इति भेदद्वयं प्राहुर्लोकधाः पुरातनाः । ज्ञापकत्वेनाभिनयत्वं द्रष्टव्यम् । सात्त्विकै वैरिति । स्तम्भादिभिरष्ट. भिर्वक्ष्यमाणैर्भावैः । मावुकेन : भावनाव्यापारवता नटेन प्रेक्षकेण च । विमावित इति । स्तम्भादीनां सकलरससाधारणत्वेन दुर्विवेचितत्वेऽपि तत्तद्रसं प्रति नियतत्वेन सूक्ष्मेक्षिकया संभावितः ।। २०, २१- ॥
(१०) अभिनयस्य भेदानाह-आङ्गिक इति । तान् मेदान् लक्षयति-चतुर्धेति । तत्र अझैः शिर आदिभिर्वक्ष्यमाणैः करणैर्दर्शित आङ्गिकः । वाचिकस्तु काव्यनाटकादिद्वारा वाचा अभिनेतव्यः । हारकेयूरकिरीटादिना बाह्यनिमित्तको रचनाविशेष आहार्यः । सात्त्विकैः कम्पादिभिः भावविशेष: भावुकेन विभावितः सात्त्विकः ॥ २०, २१ ॥
(क०) चतुर्विधस्याप्यभिनयस्य प्रथमं तावद् द्विविधामितिकर्तव्यता. माह- इतिकर्तव्यता तस्येत्यादि । इतिकर्तव्यता; प्रकारनियमः । एते च पुनर्द्विविधे इति । एते; लोकधर्मीनाट्यधम्यौं । चित्तवृत्त्यर्पिकेति । चित्तवृत्त्यर्पिकेति लोकधा एको भेदः । बाह्यवस्त्वनुकारिणीति द्वितीयः । उभे अप्यन्वर्थे वेदितव्ये । चित्तवृत्तौ अर्पितस्यार्थस्य प्रदर्शकत्वेन प्रवृत्ता। यथा, "गर्वेऽप्यहमिति तज्ज्ञैर्ललाटदेशोस्थितः कार्यः" इति पताकहस्तविनियोगे मुनिनोक्तम् । तत्र चित्तवृत्त्यर्पितस्य गर्वस्य प्रदर्शनप्रकारः चित्तवृत्त्यर्पिका । बाखवस्त्वनुकारिणीति । बहिःस्थितं पद्मादि वस्त्वनुकरोतीति । यथा पद्मकोशहस्तकमलादिनिरूपणे ॥ २२, २३. ॥
Scanned by Gitarth Ganga Research Institute