________________
४७४
संगीतरत्नाकरः सुधिया कल्लिनाथेन रत्नाकरकलानिधौ । विवृतं रसभावादि विद्वद्भिस्तत्परीक्ष्यताम् ॥ १ ॥ शैवादिस्थिरभक्त्यवाप्तविभवः कर्ता ततः संसृते
राहर्ता करणान्यनुप्रतिकलं तन्मातृकाशोभिनाम् । अङ्गानामथ तत्त्वगोचरधिया भावार्थमभ्यानय
नत्ताध्यायविवेचनं व्यतनुत श्रीकल्लिनाथः सुधीः ॥ २ ॥ सप्ताध्याय्युदधिं श्रिया विलसितं संगीतरत्नाकर
सम्यग्लक्षणलक्ष्य विस्तृतधिया मन्थेन निर्मथ्य ताम् । तत्रार्थोश्च जिघृक्षुदृष्टयभिमुखान्कुर्वन्तमात्मोदया.
द्विद्वद्भावनया कलानिधिमिमं श्रीकल्लिनाथो व्यधात् ॥ ३ ॥ नदी तद्पतामेति प्रविष्टाम्बुनिधि यथा । ज्ञानलेशो मयाप्येवं सर्वज्ञेषु निवेदितः ॥ ४ ॥ । यथाकाशो महान्भूमीरेणूनामवकाशदः । तथा मज्ज्ञानलेशानां सर्वज्ञा यूयमाश्रयाः ॥ ५ ॥ एवं रत्नाकरोन्नीतं शुक्तिमुक्ताफलं मया । सर्वज्ञाः स्वगुणैरेतद्भषयन्तु कृपान्विताः ॥ ६ ॥ एवं समृद्धसंगीतरत्नाकरकलानिधौ ।
सुधास्वादेन सुधियामानन्दश्विरमेधते ॥ ७ ॥ इति श्रीमदभिनवभरताचार्यरायवयकारतोडरमलश्रीलक्ष्मणाचार्यनन्दन
चतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ
नर्तनाध्याय: सप्तम: समाप्तः ।।
Scanned by Gitarth Ganga Research Institute