SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायाः ४७३ ग्रन्थे मदीये यदि कश्चिदस्ति गुणस्ततस्तस्य परिग्रहाय । नाभ्यर्थये वः सुधियः परेषां गुणोऽणुरप्यद्रिसमो भवत्सु ॥ १६७३ ।। सावद्यता वा निरवद्यतास्तु ग्रन्थे मयात्र ग्रथिते तया किम् । आराधने वः प्रवणा मतिमें सन्तो गुणः कं ननु नातिशेते ॥ १६७४ ॥ युष्मरक्षोदक्षम वस्तु किमत्रास्ति जगत्त्रये । किं तु मत्प्रेमतः सन्तः पुरस्कुरुत मे कृतिम् ॥ १६७५ ॥ यद्वा पुराणं पन्थानं मुनीनामहमन्वगाम् । स्निह्यन्ति च निसर्गेण सन्तः सन्मार्गगामिनि ॥ १६७६ ॥ आरिराधयिषोः साधून किं प्रज्ञाविभवेन मे । राममानन्दयन्ति स्म तिर्यञ्चोऽपि कपीश्वराः ॥ १६७७ ॥ न विद्यादर्पतो ग्रन्थप्रवृत्तिर्मम किं त्विदम् । विद्वन्मानसवासाय गन्तुं पाथेयमास्थितम् ॥ १६७८ ॥ इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेव___ नन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्माकरे सप्तमो नर्तनाध्याय: समाप्तः ॥ ७ ॥ (क०) ग्रन्थमुपसंहरन् ग्रन्थकारः स्वकीयग्रन्थस्य प्रचयगमनाय सहदयान् विपश्चितः सविनयं प्रार्थयते—मूरिश्रीशाङ्गदेवेनेत्यादिना । तदिदं निगदव्याख्यातम् ॥ १६७२-१६७८ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy