________________
४७०
संगीतरत्नाकर:
मनस्तापो रुजा हर्षो लज्जा क्रोधो भयं श्रमः ॥ १६५६ ॥ पीडाघातातपौ मोहव्यायामौ च विभावकाः । व्यजनग्रहणं स्वेदोऽप्यरालो भालमार्जकः ।। १६५७ ॥ इत्येतेऽभिनया यत्र तं स्वेदं जगदुबुधाः । इति स्वेद: (२)
आलिङ्गनाच्छुरितके शीतहर्ष भयकुधः ॥ १६५८ ॥ विभावयन्ति रोमाञ्चं व्यक्तस्याभिनयास्त्वमी । गात्रस्पर्शोल्लुक्कुसने मुहुः कण्टकिता तनुः ।। १६५९ ।। इति रोमाञ्चः (३)
औम्यरोगजराक्रोधभयहर्षमदादयः ।
विभावा विस्वरो भिन्नो गद्गदश्च ध्वनिर्भवेत् ॥ १६६० ॥ अनुभावस्तदा भावः स्वरभेदोऽभिधीयते ।
स्थानभ्रष्टो विस्वरः स्याद्विच्छिन्नो भिन्नसंज्ञकः ।। १६६१ ।। अव्यवस्थिततानोच्चनीच भावस्तु गद्गदः ।
इति स्वरभेदः (४)
आलिङ्गनाच्छुरितके हर्षो रोपो भयं जरा ।। १६६२ ॥ विभावाः शीतरोगौ च यत्रैते त्वनुभावकाः । वेपनं स्फुरणं कम्पो वेपथुं कथयन्ति तम् ।। १६६३ ॥ घेपनाद्याः कम्पभेदाः पूर्वात्सातिशयः परः ।
इति वेपथुः (५)
रोगमोहभयक्रोधशीततापथमै र्भवेत् ।। १६६४ ।।
Scanned by Gitarth Ganga Research Institute