SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः ४६९ बाह्याः स्तम्भादयो देहे नृणां देहात्ममानिनाम् । मुलभा दुर्लभास्त्वेते सतामनभिमानिनाम् ॥ १६५४ ॥ . हर्षादागाद्भयादुःखाद्विषादाद्विस्मयाद्रुषः । विक्षेपाच्च भवेत्स्तम्भोऽनुभावा जाड्यशून्यते ॥ १६५५ ॥ निःसंज्ञस्तब्धगात्रत्वे निश्चेष्टत्वाप्रकम्पने । इति स्तम्भः (१) प्रलयो जायते । ततोऽनन्तरमसौ प्राणो वायुः स्वतन्त्रः पृथिव्याघवलम्ब्य स्वप्राधान्येन वर्तमानः । क्रमान्मन्दमध्यतीव्रत्वभेदभागिति । मन्दः प्राणवायू रोमाञ्चं भावयेत् । मध्यो वायुर्वेपथु भावयेत् । अथ तीब्रो वायु: स्वरभेदं च भावयेदिति क्रमो द्रष्टव्यः । बाह्या इत्यादि । उक्तप्रकारेण स्तम्भादयः सात्त्विका आभ्यन्तरा एव । तद्विकारत्वेनानुभावा बाह्याः स्तम्भादयः । देहात्ममानिनां देहमेवात्मानं मन्यन्त इति तथोक्ताः। पामरा इत्यर्थः । तेषां नृणां देहे सुलभाः। विभावसद्भावमात्रेण शीघ्र प्रादुर्भवन्तीत्यर्थः । एते बाह्याः स्तम्भादयोऽनभिमानिनां सतां देहेन्द्रियादिव्यतिरिक्तात्मदर्शिनां देहे तु दुर्लभाः। विभावसद्भावमात्रानोद्भवन्तीस्यर्थः ॥ -१६५१-१६५४ ॥ (क०) अथ सात्त्विकभेदान् स्तम्भादीन् प्रत्येक प्रातिस्विकैविभा. यानुभावैर्लक्षयति-हद्रिागादित्यादि । अत्र स्तम्भादीनां सात्त्विकानां लक्षणेषु तत्तदनुभावत्वेन स्तब्धगात्रता स्वेदोऽपीत्यादिभिः स्तम्भादय एवोक्ता दृश्यन्ते । तत्रैवं विवेचनीयम् । पूर्व सात्त्विकशब्दवाच्यत्वेनोक्त अन्तरे भवा ये स्तम्भादयो भावास्त एवात्र लक्ष्यन्ते, ये देहसंस्था बाह्या स्तम्भादयस्ते तु तदनुभावत्वेन लक्षणतयोक्ता इति ॥ १६५५, १६५५। इति स्तम्भः (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy