________________
संगीतरत्नाकरः सांख्योक्तो वा गुणः सत्त्वं साधुत्वं वा तदुच्यते । निर्मलप्राणदेहत्वं साधुत्वमिह संमतम् ॥ १६४९ ॥ तत्र सत्वे भवा भावाः सात्त्विकाः संमताः सताम् । चत्वारि मादिभूतानि प्राधान्येनावलम्बते ॥ १६५० ॥ कदाचित्स्वप्रधानः सन्देहे प्राणश्वरत्ययम् । यदाध्यास्ते धरां स्तम्भं भावं भावयते तदा ॥ १६५१ ॥ माणाज्जलस्थादणि तेजःस्थात्तु विवर्णता । स्वेदश्चाकाशनिष्ठात्तु प्रलयो जायते ततः ।। १६५२ ॥ स्वतन्त्रोऽसौ क्रमान्मन्दमध्यतीव्रत्वभेदभाक् ।
रोमाञ्चं वेपथुमथ स्वरभेदं च भावयेत् ॥ १६५३ ॥ अनुभाव्यत्वं प्रापिताः । प्रकाशिता इत्यर्थः । अध्यस्तसंविदीति । अध्यस्ता संविद्यस्मिन्निति तथोक्तस्तस्मिन् । प्राणे प्रकाशन्त इति । प्राणमाश्रित्य प्रतिभासन्त इत्यर्थः । अन्तरे भवा इति । उक्तप्रकारेणान्तरेऽन्तरात्मनि भवाः संभूताः । एते भावाः सत्त्वप्राणप्रकाशनात्सत्त्वाख्ये प्राणे प्रकाशनात्सात्त्विकाः स्युः ॥ १६४७, १६४८ ॥
(क०) मतान्तराश्रयणेन सत्त्वशब्दस्यार्थान्तरं दर्शयति-सांख्योत्तो वेत्यादि । तत्रेति । त्रिषु पक्षेषु । चत्वारीत्यादि। अयं प्राणो वायुरूपश्चत्वारि क्ष्मादिभूतानि पृथिव्यप्तेजआकाशानि पर्यायेण । कदाचित्स्वप्रधानः स्वात्मा वायुरेव प्रधानः सन् देहे चरतीति संबन्धः ॥ १६४९, १६५०- ॥
(क०) तत्र प्राणस्य पृथिव्यायवलम्बने स्तस्मादिभावोद्भावनमाह -~यदाध्यास्त इत्यादि । जलस्थादश्रूणीति । जायन्त इत्यध्याहार्यम् । तेजस्थात्पाणाद्विवर्णता स्वेदश्च जायत इति संबन्धः । आकाशनिष्ठात्प्राणातु
Scanned by Gitarth Ganga Research Institute