________________
सप्तमो नर्तनाध्यायः एवं सति स्वाद्यमानरत्यादिस्व विभावकैः। विभाविता देहसंस्थैः स्तम्भायैरनुभाविताः ॥ १६४७ ॥ अध्यस्तसंविदि पाणे प्रकाशन्तेऽन्तरे भवाः । एते स्युः सात्त्विका भावाः सत्त्वप्राणप्रकाशनाव ॥१६४८॥
विक्रियते विषयविशेषाभिमुखीक्रियते। सा विक्रियमाणा संवित्प्राणे शरीरान्तश्चरे जीवननिमित्ते वायुविशेष आत्मानं स्वसंविदाकारमित्यर्थः । अध्यस्यति आरोपयति । स प्राणो देहं स्थूलदेहम् । आत्मानं तनोति ; अध्यस्तसंविदाकारं करोति । देह आत्मबुद्धि जनयतीत्यर्थः । अत्रात्मानमिति पूर्ववाक्यस्थं पदमावृत्त्यास्मिन्वाक्ये योजनीयम् । अन्यथात्र विधेयाभावादसंगतिः स्यात् । तनोते: करोत्यर्थाश्रयणत्व एवं व्याख्यानम् । विस्तारार्थत्वे त्वर्थावृत्तिनं करणीया। स प्राणो देहं तनोतीति योजना । देहं तनोति विस्तारयति प्राणाकारेण वृद्धिं करोति । देह आत्मबुद्धिं जनयतीति स एव फलितोऽर्थोऽवगन्तव्यः । तदा स्तम्भादय इति । यदैवैवं परम्परया देहे चात्माध्यासो. भवति तदा स्तम्भादयोऽमी देहे विकाराः प्रभवन्तीति सात्विकोत्पत्तौ सामग्री दर्शिता । देहे विकार इत्यनेन बाह्यानां स्तम्भादीनां रत्यायनुभावत्वमपि दर्शितं भवति । आन्तराणां तु स्तम्भादीनां सात्त्विकत्वमेवेत्यवगन्तव्यम् ॥ १६४५,. १६४६ ॥
(क०) एव सतीत्यादि । एवं सत्युक्तप्रकारेण देहे स्तम्भादिषु विकारेषूत्पन्नेषु । स्वायमानरत्यादिस्वैरिति । स्वाद्यमानाश्च ते रत्यादयश्च तेषां स्वैः संबन्धिभिः । रत्यादीनां प्रतिनियसै रित्यर्थः । विभावकै ललनोद्यानादिभिर्विभाविता उत्पादिताः । देहसंस्थैः स्तम्भाधैर्विकारैरनुभाषिता
Scanned by Gitarth Ganga Research Institute