________________
संगीतरत्नाकरः अन्तर्भावोऽस्ति केषांचिदभिलाषाय वा रतौ । अवहित्थे तु दम्भस्य ग्लानौ क्षुत्तृष्णयोर्यथा ॥ १६४४ ॥ उद्वेगस्य तु निर्वेदेऽन्येषामप्येवमूद्यताम् ।
इति त्रयस्त्रिंशद्वषभिचारिभावाः । अथ सात्त्विकलक्षणम् -
उक्तै रत्यादिभिर्भावैः संविद्विक्रियते यदा ॥ १६४५ ॥ प्राणेऽध्यस्यति सात्मानं देहं माणस्तनोति सः।
तदा स्तम्भादयो देहे विकाराः प्रभवन्त्यमी ॥ १६४६ ॥ त्यादि । रसं स्थायिनं कुर्वन्तीति । अत्र हेतुः-विचित्र कारित्वादिति । यस्य कस्यापि रसस्य सहकारित्वेनोत्पन्ना निर्वेदादयो भावा एकरूपं तं स्वानुप्रवेशान्नानारूपं कृत्वा पश्चातस्मिन्नेवान्तर्भूनाः सन्तः कल्लोलाः ललिल. निधिमिव तमेव रसं स्थायित्वेन पुष्णन्तीति व्यभिचारिकृतो रसोपकारो द्रष्टव्यः। मनोवृत्तीनामनन्तत्वादियन्त एवेति निर्धारणं कुत इत्यत आह -सन्ति वन्य इति । ॥ १६४३ ॥
(क०) तहिं ते कुतो न कथिता इत्यत्राह–अन्तर्भाव इति । तमेवान्तर्भाव दिङ्मात्रेण दर्शयति-अभिलापस्येत्यादि । अन्येपामप्येवमूह्यतामिति । अन्येषामनुक्तानां भावान्तराणामप्येवमुक्तप्रकारेण यथायोगं निर्वेदादिप्वन्तर्भाव ऊह्मतां बुद्धया परिकल्प्यताम् ॥ १६५७ - १६५८ ॥
इति त्रयस्त्रिंशद्वषभिचारिभावाः। (क०) अथ सात्त्विकभावालँक्षयितुमाह-अथेत्यादिना । उक्तरित्यादि । रत्यादिभिर्भावैः स्थायिभावैः संविद्विषयानभिमुखं ज्ञानं यदा
Scanned by Gitarth Ganga Research Institute