________________
सप्तमो नर्तनाध्यायः
निमीलनं लोचनयोः प्रलयश्चेति कीर्तिताः । पूर्वापरविचारोत्थं भयं त्रासात्पृथग्भवेत् ।। १६३९ ।। इति त्रासः (३२)
४६५
निद्रेन्द्रियाणां प्रथमा निवृत्तिः स्वस्वगोचरात् ।
अत्याहारः स्वभावश्व चिन्तालस्ये मदः क्लमः ।। १६४० ॥ व्याख्यानादिप्रयासेन वैलक्षण्यं च हेतवः । निद्रायामनुभावाः स्युर्नृम्भावदनगौरवम् ।। १६४१ ।। शरीरलोलनं नेत्रघूर्णनं गात्रमोटनम् । निःश्वासोच्छ्वसिते स्रस्तगात्रताक्षिनिमीलनम् ।। १६४२ ॥ इति निद्रा (३३)
त्रयस्त्रिंशद्विचित्रत्वकारित्वात्स्थायिनं रसम् ।
कुर्वन्तीति मया प्रोक्ताः सन्ति त्वन्ये सहस्रः || १६४३ ॥
गद्गद स्वरत्वम्, रोमाञ्चः, स्रस्ताङ्गत्वं, नेत्रनिमीलनं, प्रलय इत्येते अनुभावाः । पूर्वापर विचारोत्थभीतिरपि त्रास एव ॥ ९६३७- १६३९ ॥
इति त्रास : (३२)
(सु० ) निद्रां लक्षयति - निद्रेन्द्रियाणामिति । इन्द्रियाणां प्रथमं स्वस्वविषयेभ्यो निवृत्तिः निद्रेत्युच्यते । अत्याहारस्वभावचिन्तालस्यमदक्कमादिना स च जायते । जृम्भावदनगौरवशरीरलोलनगात्रमोटननिश्वासोच्छ्रासस्रस्तगात्रता नेत्रनिमीलनान्यनुभावाः ॥ १६४० - १६४२ ॥
इति निश (३३)
(क० ) व्यभिचारिभिः क्रियमाणं रसोपकारमाह - त्रयस्त्रिंशदिइतः परं सुधाकरव्याख्या त्रुटिता ।
59
Scanned by Gitarth Ganga Research Institute