SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ४६४ संगीतरनाकरः हिकोर्ध्वश्वासवमनजनतापरिवारणैः। - अव्यक्ताक्षरभाषायैाधिजस्यानुभावनम् ॥ १६३२॥ शस्त्रजे सहसा भूमौ पतनं च विकम्पनम् । स्फुरणादि प्रयोक्तव्यमथाहिविपपानजे ॥ १६३३ ॥ अनुभावा भवन्त्यष्टौ विपवेगात्क्रमादिमे । कायॆवेपथुदाहाश्च हिकाफेनश्च पञ्चमः ॥ १६३४ ॥ स्कन्धभङ्गश्च जडता मरणं चेति संमताः । अभिघातान्तरोद्भतेऽनुभावाः शस्त्रजातवत् ॥ १६३५ ॥ व्याध्यादेरनिवर्त्यत्वानिश्चिते मरणे सति । अत्र मानिधनाञ्चित्तवृत्तिमरणमिप्यते ॥ १६३६ ॥ ___इति मरणम् (मृतिः) (३१) गात्रोत्कम्पी चमत्कारः सहसा त्रास उच्यते । तस्योत्पाताद्घोरनादश्रुतेभीषणदर्शनात् ॥ १६३७ ।। उत्पत्तिरनुभावास्तु गात्रसंकोचकम्पने । स्तम्भो गद्गदशब्दश्च रोमाञ्चाः सस्तगात्रता ॥ १६३८ ॥ इत्युच्यन्ते । शस्त्राहिविपतोयश्वापदतुरङ्गजाग्न्युत्पतनसंभूतमग्निजमित्युच्यते । निश्चेष्टप्रसृताङ्गत्वं नेत्रनिमीलनम् उच्छ्सनं वमनमित्याद्या व्याधिजे अनुभावाः । शस्त्रजापघातजे त्वरितं भूपतनं विकम्पनं स्फुरणादिकं चानुभावाः । विषपानजे कार्य वेपथुः दाहः हिक्का फेनः स्कन्धभङ्गः जाडयं मरणमित्यष्टौ अनुभावाः । अन्यत्स्पष्टम् ॥ १६२९-१६३६ ॥ इति मरणम् (३१) (मु०) त्रासं लक्षयति--गात्रोत्फम्पीति । घोरनादश्रवणात् भीषणदर्शनात् उत्पाताच त्रास उत्पद्यते । अत्र गात्रसंकोचनकम्पने स्तम्भः, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy