SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४६३ सप्तमो नर्तनाध्यायः विस्मयो वीक्षणं पश्चात्मियश्रवणजे पुनः । वस्त्राभरणदानं चाभ्युत्थानं परिरम्भणम् ॥ १६२५ ॥ कथायामश्रुरोमाञ्चाश्चाप्रियश्रुतिजे त्वमी । विलापः पतनं भूमौ चलनं परिवर्तनम् ।। १६२६ ॥ परिभावनमित्याद्या वैरिव्यसनजे त्वमी । सहसापसृतिः शस्त्रचर्मवर्मादिधारणम् ॥ १६२७ ।। गजानां तुरगाणां चारोहणं संप्रधारणम् । पृथगित्यनुभावाः स्युरावेगे संभ्रमात्मके ॥ १६२८ ॥ इत्यावेगः (३०) मरणं द्विविधं प्रोक्तं व्याधिजं चापयातनम् । दोपवैपम्यजैर्गण्डज्वराद्यैर्व्याधिजं भवेत् १६२९ ॥ वातपित्तकफा दृष्टा दोपत्वेनेह संमताः । शस्त्रादि विपतोयेभ्यः श्वापदात्तुरगाद्नात् ॥ १६३० ॥ अग्न्युच्चपतनादिभ्यो जातं स्यादभिघातनम् । निश्चेष्टप्रसृतैरङ्गैमीलनेन च नेत्रयोः ॥ १६३१ ॥ वातजे वस्त्रेण छादनं, नयनमर्दनं, शीघ्रगमनमित्येते अनुभावा भवन्ति । वर्षजे तु सर्वाङ्गपीडनं, शीघ्रधारणम् , गृहाद्याश्रयश्चानुभावा: । अग्निजे अङ्गधूननं धूमव्याकुलनेत्रता, क्रान्तापक्रान्ताख्यचारीद्वयचटुलचरणत्वं चानुभावाः । वैरिव्यसनजे शस्त्रधर्मादिधारणं गजतुरगाद्यारोहणमित्याद्या अनुभावाः ।। १६१६-१६२८ ॥ इत्यावेग: (३०) __(मु०) मरणं लक्षयति-- मरगमिति । मरणं द्विविधम् , व्यधिजमपघातजमिति । दोषवैषम्यजज्वरायैः व्याविजं भवति । वातपित्तकफोष्णा: दोषा Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy