________________
४६२
संगीतरत्नाकरः
अधीराणां जातमात्रे शोकेऽनन्तरमुद्भवेत् ॥ १६१६ ॥ आवेगः पत्रोऽयं तु धीरैर्यान्निरूप्यते । असौ प्रतिविभावं च पृथक्वित्रानुभावभाक् ।। १६१७ ॥ अतो विभावरूपानां हेतूनां भेदतोऽष्टधा । उत्पातवातवर्षाग्निकुञ्जरभ्रमणानि च ।। १६९८ ।। प्रियाप्रियश्रुतिर्वैरिव्यसनं चेति हेतवः । forgeकानिपाताभ्यां निघताभिकम्पनात् ।। १६१९ ॥ सूर्यचन्द्रोपरागाभ्यामावेगः केतुदर्शनात् ।
उत्पातजोsस्यानुभावो वैवर्ण्य वस्तगात्रता ॥ १६२० ॥ विपादविस्मयगतानुभावाचेह संपताः ।
वातजे त्वत्र वस्त्रेण पिधानं नेत्रमर्दनम् ॥ १६२१ ॥ त्वरितागमनं चानुभावाः स्युर्वर्पजे पुनः ।
सर्वाङ्गपीडनं गेहायाश्रयः शीघ्रधावनम् ।। १६२२ ।। अनिजे धृतिरङ्गानां धूमाकुलितनेत्रता । चार्यातिक्रान्तया चापकान्तया चरणं भवेत् ।। १६२३ ।। कुञ्जराणां निरवधिभ्रमणाद्यस्तु जायते । सरणापती तत्र त्वरिते भयवेपथुः || १६२४ ॥
(मु० ) आवेगं लक्षयति - अधीराणामिति । यत्र शोकजननमात्रेण अधीराणामावेगो जायते । उत्तमास्तु जातमप्यावेगं धैर्यान्निरुन्धते । विभावरूपहेतुभेदेन सोऽष्टविधः । उत्पातजः, वातजः, वर्षज:, अग्निजः, कुञ्जरभ्रमणज, त्रियश्रवणजः, अप्रियश्रवणजः, वैरित्र्यसनज इति । उत्पातजो विनिपातेन, निर्वातेन भूकम्पनेन, सूर्यचन्द्रोपरागाभ्यां केतुदर्शनेन चावेगः । अत्र च वैवर्ण्य स्त्रस्तगात्रत्वम्, विषादविस्मयगतभावाश्च अनुभावा भवन्ति ।
Scanned by Gitarth Ganga Research Institute