________________
सप्तमो नर्तनाध्यायः वैवर्ण्यमस्याभिनयो नाडीपीडनयोगतः । सिन्दुरायेन वा वर्णान्तरसंचारणं मुखे ॥ १६६५ ॥
इति वैवर्ण्यम् (६) हर्षामर्षाञ्जनामाद्भयाच्छोकाच्च जृम्भणात् । अनिमेषेक्षणाच्छीताद्रोगाद्भावोऽश्रु जायते ।। १६६६ ।। तं चानुभावयेदश्रुस्रवगैर्नेत्रमार्जनैः ।
इत्याश्रु (७) मदमूर्जाभिघातेभ्यो निद्रामोहश्रमादिभिः ॥ १६६७ ॥ मलयः स्यादभिनयेन्मही निपतनेन तम् ।
इति प्रलयः (०) इत्युक्तास्त्रिविधा भावाः स्थायिनो व्यभिचारिणः॥१६६८॥ साविकाच रसेषु स्युः सर्वे सर्वेषु सात्त्विकाः । एकः कार्यो रसः स्थायी रसानां नाटके सदा ॥ १६६९ ॥ रसास्तदनुयायित्वादन्ये तु व्यभिचारिणः।
(क०) भावलक्षणं नियमयति–इन्युक्तास्त्रिविधा भावा इति । त्रिविधेष्वपि भावेषु सात्त्विकानां विशेषमाह-रसेषु स्युः सर्वे सर्वेषु साचिका इति । सर्वे सात्त्विकाः स्तम्भादयोऽष्टावपि सर्वेषु रसेषु शृङ्गारादिनवस्वपि साधारण्येन भवन्तीत्यर्थः ।। -१६६८, १६६८॥
(क०) नाटकादिनिर्माणे कवेनियममाह-एकः कार्य इत्यादि। नाटक इत्युपलक्षणम् । नाटकादिषु रूपके प्वित्यर्थः । रसानामिति निर्धारणे षष्ठी । शृङ्गारादीनां नवानां रसानां मध्य एको रसो नाटकादिषु यत्र यस्य प्राधान्यं भरतादिभिरुक्तम् " एको रसोऽङ्गी कर्तव्यो वीरः शृङ्गार
Scanned by Gitarth Ganga Research Institute