________________
सप्तमो नर्तनाध्यायः पक्षयोरुभयोरुक्ते माने साधकबाधके । विभावाः स्युरिमे चानुभावाः शीर्पस्य कम्पनम् ॥ १५८८ ॥ भ्रक्षेपश्चतुरो हस्तस्तं वितर्क प्रचक्षते । यो वितर्कान्वितस्थायी सोऽवहित्थेन युज्यते ॥ १५८९ ।।
इति वितर्कः (२१) निद्राविभावजं सुप्तं सुप्तावस्थात्मकं मतम् । तस्यानुभावा निभृतं गानं नेत्रनिमीलितम् ॥ १५९० ॥ स्वमालापनं श्वासोच्छासौ बाह्याक्षलीनता ।
__इति सुप्तम् (२२) संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः ॥ १५९१ ॥ निद्रया तन्द्रया गात्रगौरवेण च चिन्तया । अनुभावितमाख्यातमौत्सुक्यं भावकोविदः ॥ १५९२ ॥
इत्यौत्सुक्यम् (२३)
बाधके माने विभावौ ; शीर्षकम्पनभ्रूक्षेपाचा अनुभावा भवन्ति ; स वितर्कः । यत्र चतुरहस्तेन भ्रूक्षेपं दर्शयति, तं वितर्के प्रचक्षते । यो वितर्कान्वितस्थायी, सोऽवहित्थेन युज्यते ॥ -१९८७-१९८९ ॥
इति वितर्क: (२१) (सु०) सुप्तं लक्षयति-निद्रेति । निद्रा विभावसंभवा, स्वप्नावस्था सुप्तमित्युच्यते । तत्रानुभावाः निभृतगात्रनेत्रनिमीलनश्वासोच्छ्रासादयोऽनुभावा इति ॥ १५९०, १५९०-॥ ..
इति निदा (२२) (सु०) औत्सुक्यं लक्षयति-संजातेति । यत्र, निदातन्द्रापात्र
Scanned by Gitarth Ganga Research Institute