________________
४५६
संगीतरत्नाकर:
धातुवैषम्यमित्याद्यैर्विभावैरनुभावकैः । स्पन्दनं कम्पनिःश्वासौ धावनं पतनं भुवि ।। १५८३ ॥ जिह्वाया लेहनं स्वेद: स्तम्भो वक्त्रं च फेनिलम् । निःसंज्ञतेत्यादिभिश्वापस्मारमुपलक्षयेत् ।। १५८४ ॥
इत्यपस्मारः (१९)
कार्याविवेक जडता पश्यतः शृण्वतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ।। १५८५ । अनुभावास्तु चैवास्याः प्रतिवादावभाषणे । इष्टानिष्टापरिज्ञानं चानिमेषेक्षणादयः ।। १५८६ ।। सा पूर्व परतो वा स्यान्मोहादिति विदां मतम् । इति जडता ( २० )
यत्र विप्रतिपत्तिः स्यात्संशयोऽपि विमर्शनम् ।। १५८७ ॥
राक्षसभूतायुप्रप्रहावेशः, तत्स्मृतिः, शून्यागारस्य सेवनम, धातूनामिन्द्रियाणां वैषम्यमित्याद्या विभावाः; स्पन्दनं, कम्पनिःश्वासौ, धावनम्, भुवि पतनम्, जिह्वाया लेहनम्, स्वेदः, स्तम्भः, फेनिलं वक्त्रं च, निःसंज्ञतेत्याद्या अनुभावा: ; सोऽपस्मारः ॥ - १५८१-१५८४ ॥
इत्यपस्मार : (१९)
(मु०) जडतां लक्षयति - कार्याविवेक इति । पश्यतः, शृण्वतोऽपि कार्याविवेकता, जाड्यम्, प्रियानिष्टदर्शनश्रवणादयो विभावा यत्र भवन्ति ; इष्टानिष्टपरिज्ञाननिर्निमेषप्रेक्षणाद्या अनुभावाः; सा जडता । सापि मोहात् पूर्वे परतो वा स्यादिति । १९८५ - १९८६- ॥
इति जडता (२०)
( सु० ) वितर्क लक्षयति-यत्रेति । यत्र, विप्रतिपत्तिविमर्शनसाधक
Scanned by Gitarth Ganga Research Institute