SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः तत्प्रतीकारशून्यस्य वैरानुस्मरणादयः ।। १५६६ ।। विभावाः सन्ति यत्राथ पतनं देहघूर्णनम् । हृदयस्यानवस्थानमिन्द्रियाणामचेष्टता ।। १५६७ ।। इत्यादयोऽनुभावास्तं मोहमाहुर्मनीषिणः । पश्यतो भीतिहेतुं तत्प्रतीकारमपश्यतः ।। १५६८ ॥ कार्यानिश्चयिनी चित्तवृत्तिर्मोहोऽभिधीयते । इति मोहः (१३) अतितृप्तिः स्वभावश्च गर्भव्याधिश्रमादयः ।। १५६९ ॥ विभावा अनुभावास्तु निद्वातन्द्रासनाशनात् । ऋते सर्वक्रियाद्वेषो यत्रालस्यं तदुच्यते ।। १५७० ॥ ४५३ इत्यालस्यम् (१४) अमर्षप्रातिकूल्येर्ण्यारागद्वेषाश्च मत्सरः ।' इति यत्र विभावाः स्युरनुभावास्तु भर्त्सनम् ।। १५७१ ॥ वाक्पारुष्यं प्रहारश्च ताडनं वधबन्धने । शून्यस्य वैरस्मरणादिरित्येते विभावाः; पतनं, देहघूर्णनं, हृदयानवस्थिति:, इन्द्रियाणां निश्चेष्टत्वमित्याद्या अनुभावा भवन्ति ; स मोहः ॥ - १९६९ - १९६८-॥ इति मोह : (१३) (सु० ) आलस्यं लक्षयति - अतितृप्तिरिति । यत्र, अतितृप्तिस्वभावगर्भव्याधिश्रमाद्याः विभावाः, निद्रातन्द्रासर्व क्रियाद्वेषादयोऽनुभावाश्च भवन्ति ; तदालस्यम् ॥ - १९६९, १५६- ॥ इत्यालस्यम् (१४) (सु०) चापलं लक्षयति- अमर्षेति । यत्र, अमर्षः, प्रातिकूल्यं, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy