SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४५२ संगीतरत्नोकरः धूनतिश्च स्मृतिः सा स्यात्सुखदुःखप्रदायिनाम् ।। १५६१ ॥ चिरविस्मृतवस्तूनां स्मरणं स्मृतिरुच्यते । इति स्मृतिः (११) गुरुव्यतिक्रमोऽवज्ञा कृते त्यागेऽनुतापिता ॥ १५६२ ॥ प्रतिज्ञातार्थनिर्वाहो विभावैरेभिरुद्गता । मुखावनमनं गूढवचनं च विचिन्तनम् ॥ १५६३ ॥ वस्त्राङ्गुलीयकस्पर्शो नखानां कर्तनं मुहुः । भुवि लेखनामित्याद्यैर्वीडाभावोऽनुभाव्यते ॥ १५६४ ॥ वीडानुतापशुचिभिदृष्टा कार्ये कृते सति । इति ब्रीडा (१२) देवजोपबादेहपीडेटविरहादिकम् ॥ १५६५ ।। मर्मप्रहारोऽप्यस्थाने घोरचोरादिजं भयम् । चानुभावः, सा स्मृतिः । अथवा सुखदुःखप्रदायिनां चिरविस्मृतवस्तूनां स्मरण स्मृतिरिति ॥-१९९९-१५६१- ॥ इति स्मृति: (११) (१०) ब्रीडां लक्षयति-गुर्विति । यत्र, गुरुव्यतिक्रमणम् , अवज्ञात्यागानन्तरमनुतापः, प्रतिज्ञातानिर्वहणमित्येते विभावाः; मुखावनतिः, गूढवचनम् , विचिन्तनं च, वस्त्रागुलीयकस्पर्शनम् , मुहुर्नखकर्तनम् , भुवि लेखनमित्याद्या अनुभावाः ; सा ब्रीडा ॥ -१५६२-१५६४-॥ इति ग्रीडा (१२) (सु०) मोहं लक्षयति-देवजेति । यत्र, दैवतोपहवः, देहपीडा, इष्टविरहादिकम् , मर्मप्रहरणम् , अस्थाने घोरचोरादिजा भीतिः ; तत्प्रतीकार Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy