________________
सप्तमो नर्तनाध्यायः विवेकः श्रुतिसंपत्तिगुरुभक्तिस्तपस्विता । एते विषयभावेन करणत्वेन च स्थिताः ॥ १५५६ ॥ इष्टाधिकानामिष्टानां लाभस्तु विषयत्वतः । क्रीडाकरणभावेन विभावा यत्र संमताः ॥ १५५७ ॥ प्राप्तभाग्योपभोगस्य त्वप्राप्तातीतभोगयोः । जीर्णे नष्टे चाविषादो न तु शोचनमित्यपि ॥ १५५८ ॥ अनुभावद्वयं यत्र धृति तां ब्रवते बुधाः।
इति धतिः (१०) पश्चिमाहरे रात्रः स्वास्थ्यं निद्राक्षयस्तथा ॥ १५५९ ॥ ध्यानं च मुहुरभ्यासः सदृशः श्रुतिदर्शने । एते यत्र विभावाः स्युरनुभावास्तु कम्पितम् ॥ १५६० ॥
उद्वाहितं च शीर्षस्यासदृशस्यावलोकनम् । ध्यानं, कार्य, देहानुपस्कृतिः, अतिरित्याद्या अनुभावाः ; सा चिन्ता । अस्याः चिन्तायाः वितर्कः पूर्वक्षणे उत्तरक्षणे वा उपजायते ॥ -१९५३-१५५५ ॥
___ इति चिन्ता (९) (१०) धृति लक्षयति-विवेक इति । यत्र विवेकः श्रुतिसंपत्तिः, गुरुभक्तिः, तपस्वित्वमित्येते विषयत्वेन, करुणत्वेन च वर्तन्ते । इष्टलाभस्तु विषयत्वेन क्रीडाकरणत्वेन च विभावा भवन्ति । प्राप्तभोग्योपभोगस्य अप्राप्तातीतभोगयोः अविषादेन स्थितिरित्याद्या: अनुभावाः; सा धृतिः ॥ १५५६-१९५८-॥
___इति धृतिः (१०) (सु०) स्मृति लक्षयति-यत्र, रात्रे: पश्चिमाहरे स्वास्थ्यं यथातथा निद्राक्षयः, तथा ध्यानम् , मुहुर्मुहुरभ्यासश्च, सदृशः श्रुतिदर्शन च इत्येते विभावाः । कम्पितमुद्वाहितं च शिरः, तादृशावलोकनम्, भ्रूनमनं, स्मरणं
Scanned by Gitarth Ganga Research Institute