________________
४५०
संगीतरत्नाकर:
अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः । गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः ।। १५५२ ।। विश्वासैर्नृम्भितैर्मन्दैः पादक्षेपैः श्रमो यतः ।
इति श्रमः (८) विभावा यत्र दारिद्र्यमैश्वर्य भ्रंशनं तथा ।। १५५३ ॥ इष्टार्थापतिश्चाथ श्वासोच्छ्रासावधोमुखम् । संतापः स्मरणं ध्यानं कायै देहानुपस्कृतिः ।। १५५४ ॥ अधृतिश्वानुभावाः स्युः सा चिन्ता परिकीर्तिता । वितर्कोऽस्याः क्षणे पूर्वे पाश्चात्ये वोपजायते ।। १५५५ ।। इति चिन्ता ( ९ )
अधमसत्त्वा ये पुमांस:, तेषामेवाधमो मदः । अव्यक्तासङ्गतैः वाक्यैः, तनोः रोमाञ्चनिचयैः, सुकुमारेण स्खलद्गतिरित्याद्या तरुणे मदेऽनुभावा भवन्ति । स्रस्तौ व्याकुलौ, विक्षिप्तौ स्खलितौ, घूर्णितौ भुजौ, कुटिले नेत्रे, कुटिला गतिश्चेत्याद्या मध्यममदेऽनुभावा भवन्ति । गतिभङ्गः, स्मृतिनाश:, छर्दिः, जिह्वाष्ठीवनमित्याद्या अधमे मदेऽनुभावा भवन्ति । मदवर्धनं मधु पीत्वा रऽभिनयेत् । ततो रङ्गं प्रविश्य मदक्षयाय हर्षशोकभयोपायान् युगपत्प्रदर्शयेत् ॥ ॥ -१५४३-१५५१ ॥
इति मदः (७)
(सु० ) श्रमं लक्षयति - अध्वेति । यत्र अध्वव्यायामसेवादिकं विभावः । गात्रसंवाहनं, मुखसंकोचनम्, अङ्गमोटनं, नि:श्वास:, जृम्भा, पादोत्क्षेप इत्येते अनुभावाः, स श्रमः ॥ १५५२, १५५२- ॥
इति श्रमः (८)
(सु० ) चिन्तां लक्षयति-विभावा इति । यत्र दारिद्रयम्, ऐश्वर्यभ्रंशनम्, इष्टार्थापहरणम्, निःश्वासोच्छ्वासावित्येते विभावा: ; संतापः, स्मरणं,
Scanned by Gitarth Ganga Research Institute