________________
सप्तमो नर्तनाध्यायः मद्यपानं विभावोऽयानुभावाः पञ्च येत्र च ॥ १५४३ ॥ शयनं हसनं गानं रोदनं परुवोक्तयः। उत्तमे पुरुषे स्वापो हासगाने तु मध्यमे ॥ १५४४ ॥ रोदनं परुषोक्तिश्च भवतः पुरुषेऽधमे । स स्यान्मदः स च त्रेधा तरुणो मध्यमोऽधमः ।। १५४५ ।। तरुणोऽल्पोऽधमस्त्वत्र प्रद्धोऽधमसंश्रयात् । सर्वेषां तरुणः प्रोक्तो मध्यमो मध्यनीचयोः ॥ १५४६ ॥ पुमांसोऽधमसत्त्वा ये तेषामेवाघमो मदः। अव्यक्तासंगतैर्वाक्यै रोमाञ्चनिचयैस्तनोः ॥ १५४७ ॥ सुकुमारस्खलद्गत्याभिनयेत्तरुणं मदम् । सस्तव्याकुलविक्षिप्तौ भुजौ स्खलितपूर्णिते ॥ १५४८ ॥ नेत्रे गतिश्च कुटिलानुभावा मध्यमे मदे। गतिभङ्गः स्मृते शो हिका छर्दिः कफस्नुतिः ॥ १५४९ ॥ गुर्वी चिहा ष्ठीवनं चानुभावाः स्युर्मदेऽधमे । रङ्गे विधाय पानं तु नाटयेन्मदवर्धनम् ।। १५५० ॥ पीत्वा रङ्गप्रवेशे तु मदर॑ण्याय बुद्धिमान् । हर्षशोकभयोपायान्युगपदर्शयेदहून् ॥ १५५१ ।।
इति मदः (७) (सु०) मदं लक्षयति-मद्यपानमिति । यत्र मद्यपानं विभावः, शयनं, हसनं, गानं, रोदनं, परुषोक्तिरित्येते उत्तमपुरुषेऽनुभावा: ; स्वापः, हास:, गानं च मध्यमपुरुषेऽनुभावाः; रोदनं, परुषोक्तिश्च अधमे पुरुषेऽनुभावौ भवतः, स मदः । सोऽपि त्रिविधः । तरुणः, मध्यमः, अधम इति । तरुणोऽल्प: अधमस्त्वत्र अधमसंश्रयो प्रवृद्धः । सर्वेषां तरुणः प्रोक्तः । मध्यनीचयोः मध्यमः ।
Scanned by Gitarth Ganga Research Institute