________________
४५४
संगीतरनाकरः तचापलमनालोच्याकार्यकारित्वमिष्यते ॥ १५७२ ॥
इति चापलम् (१५) देवभर्तृगुरुस्वामिप्रसादः प्रियसंगमः । मनोरथाप्तिरपाप्यमनोरथधनागमः ॥ १५७३ ॥ समुत्पत्तिश्च पुत्रादेविभावो यत्र जायते । नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ।। १५७४ ।। अश्रुस्वेदादयश्चानुभावा हर्ष तमादिशेत् ।
इति हर्षः (१६) विद्याधनबलैश्वर्याधिकैर्मध्येसभं नृभिः ॥ १५७५ ॥ अधिक्षेपादपर्षः स्यात्मतीकारस्पृहात्मकः । नृणामुत्साहिनामेव स स्यात्तस्यानुभावकः ॥ १५७६ ॥
स्वेदोऽधोमुखता मूर्धकम्पो निर्लक्षचित्तता। रागद्वेषमत्सराश्च विभावा भवन्ति ; भत्सनवाक्पारुष्यप्रहारताडनवधबन्धनान्यनुभावाश्च भवन्ति ; तच्चापलम् ।। १५७१, १५७२ ॥
इति चापलम् (१५) (मु०) हर्षे लक्षयति--देवेति । यत्र, देवभर्तृगुरुस्वामिप्रसादसंपत्तिः, प्रियसङ्गमः, मनोरथप्राप्तिः, अप्राप्यधनप्राप्तिः, पुत्रादिना हर्षोत्पत्तिश्च विभावाः; नयनमुखप्रसादः, प्रियवचनम् , पुलकोत्पत्तिः, अश्रुस्वेदादिकं चानुभावाश्च भवन्ति; स हर्षः ॥ १५७३-१९७४- ॥
इति हर्षः (१६) (१०) अमर्ष लक्षयति-विद्येति । यत्र, विद्याधनैश्वर्याधिकैः अधिक्षेपादमर्षो भवति । स तु प्रतीकारस्पृहात्मकः, उत्साहिनां नृणामेव विभावको
Scanned by Gitarth Ganga Research Institute