________________
सप्तमो नर्तनाध्यायः सोत्तमानामपि स्त्रीणां भीरुत्वाद्भयकृद्भवेत् ॥ १५३३ ॥ प्रियविप्रियजा शङ्का शृङ्गारे शाह्मिणोदिता। चौर्यराजापराधादिप्रभवा तु भयानके ॥ १५३४ ॥ परस्था स्वसमुत्था च द्वेधा शङ्का निगद्यते । नृषु भीरुस्वभवेषु तरलालोकनादिभिः ॥ १५३५ ।। सापराधत्वशङ्का यान्येषां सा परसंस्थिता । स्वसमुस्था परे ज्ञास्यन्त्यपराधं ममेत्यसौ ॥ १५३६ ॥ स्वशङ्कायां परज्ञानशङ्का या स्वसमुत्थिता। . सहभावोऽवहित्थेन शङ्काया दृश्यते रसे ।। १५३७ ॥
इति शहा नृपापराधोऽसदोषकीर्तनं चोपधारणम् । विभावाः स्युरथो बन्धो वधस्ताउनभर्त्सने ॥ १५३८ ॥
(सु०) शंका लक्षयति—प्रियेति । यत्र चौर्यराजापराधादिकार्येण ग्रहणं विभावः, परैः तस्या दर्शने यत्नः, पार्श्वद्वये मुहुर्वीक्षणम् , कण्ठोष्ठमुखशोषणम् , जिह्वापरिलेहनम् , वेपथुः, मुखवैवर्ण्यम् , गुरुविह्वलजिह्वता, उन्मुखेक्षणमित्याद्या अनुभावा भवन्ति । सा शङ्का । नीचे अनर्थभावा शङ्का उत्तमानां स्त्रीणामपि सा भवत्येव । शृङ्गारे प्रियविप्रियशङ्का । भयानके चौर्यराजापराधजा। शङ्का द्विविधा । परस्था स्वसमुत्था चेति । भीरुस्वभावेषु मानुषेषु तरलोद्वीक्षणादिना सापराधत्वशङ्कया परेषां जाता शङ्का परस्था । ममापराधमन्ये ज्ञास्यन्तीति या स्वसमुत्थिता शङ्का सा द्वितीया ॥ १५३०-१५३७ ॥
इति शङ्का (३)
(सु०) औन्यं लक्षयति-नृपेति । यत्र राजापराध:, असदोषकीर्तनम् ,
Scanned by Gitarth Ganga Research Institute