________________
४४६
संगीतरत्नाकरः विभावाः स्युरथ सस्ताधरनेत्रकपोलता । मन्दावुत्क्षेपनिक्षेपौ पादयोस्तनुगात्रता ॥ १५२८ । विवर्णशिथिलाङ्गत्वं कम्पानुत्साहतादयः । यत्र भावेऽनुभावाः स्युः सा ग्लानिरभिधीयते ॥ १५२९ ॥
इति ग्लानिः चौर्यराजापराधादेरकार्याद्ग्रहणं नृणाम् । अन्येषु तत्सहायेषु विभावश्चेदथात्मनः ।। १५३० ।। अन्येनादर्शने यत्र पार्श्वयोर्मुहुरीक्षणम् । कण्ठोष्ठमुखशोषश्च जिह्वायाः परिलेहनम् ।। १५३१ ।। वेपथुर्मुखवैवर्ण्य गुरुविहलजिह्वता । उन्मुखेक्षणमित्यादिरनुभावगणो यदा ।। १५३२ ॥ नीचेषूत्तममध्येषु नरेषु मृदुचेष्टितैः ।
अध्वगमनम् , क्षुत्पिपासादयश्च विभावा स्युः । तथा स्रस्ताधरनेत्रकपोलता, पादोत्क्षेपविक्षेपो, विवर्णशिथिलगत्वम् , कम्पः, अनुत्साह इत्याद्या अनुभावा भवन्ति, स ग्लानिः ॥ -१५२६-१५२९ ॥
इति ग्लानि: (२) (क०) शङ्कालक्षणे-चौर्येत्यादि । चौर्यराजापराधादेरकार्याखेतोः नणां चौर्यादिकर्तृणां ग्रहणं तत्सहायेप्वन्येषत्पद्यमानायाः शङ्काया विभावश्वेत्तदा । तन्निष्ठानुभावानाह–अथात्मन इत्यादि । यदैवमादिरनुभावगणो भवति, तदानीं तेष्वसंदेहरूपा शङ्का भवेदित्यन्वयः। सोत्तमानामिति । सा शङ्कोत्तमानां पुंसां स्त्रीणामपि भीरुत्वाद्भीरुस्वभावतया । भयकृदिति । भयानकस्य विभावो भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ १५३०-१५३३ ॥
Scanned by Gitarth Ganga Research Institute