________________
४४५
सप्तमो नर्तनाध्यायः निश्वासोच्छसिते दीनमुखता संधारणम् ॥ १५२५ ॥ इत्यादयः स निर्वेदो भावः सूरिभिरिष्यते ।
___इति निर्वेदः व्याधिर्वान्तिविरेकश्वोपवासो नियमस्तपः ॥ १५२६ ॥ मनस्तापोरतिपानातिव्यायामसुरतानि च ।
निद्राछेदोऽध्वगमनं क्षुत्पिपासादयस्तथा ॥ १५२७ ॥ नोऽपि लक्षिताः । संचारिणस्तु रससहकारितया नाममात्रेणोद्दिष्टाः ; न तु प्रत्येकं लक्षिता इतीदानी निर्वेदादीनां विशेषलक्षणानि वक्तुमाह-अथेति । निर्वेदादीनां भावानां रसवन्मनोविकारविशेषरूपतया तत्त द्विभावानुभावकथा नपूर्वकं लक्षयति-'आक्रोशनमधिक्षेपः' इत्यारभ्य 'सस्तगात्रताक्षिनिमीलनम्' (१६४२) इत्यन्तेन ग्रन्थसंदर्भेण ॥ १५२३, १५२४- ।।
(सु०) अथ व्यभिचारिणो लक्ष्यति---.अथेति । तत्र निर्वेदं लक्षयतिआक्रोशनमिति । यत्र आक्रोशनम् , अधिक्षेप ; व्याधिः, क्रोधः, ताडनम् , दारिद्रयम् , इष्टवियोगः, परकीयवृद्धिदर्शनमित्येते नीचेषु विभावाः । उत्तमे तु अवमाननतत्त्वबोधौ विभावौ, रोदनम् , नि:श्वासोसिते, दीनमुखत्वम् , संप्रधारणमित्याद्या अनुभावाश्च भवन्ति, स निवेदः ॥ १५२३-१५२५- ॥
इति निर्वेदः (१) (क०) निर्वेदानुभावेपु-संप्रधारणमिति । इत्यादय इत्यत्रादिशब्देन लोकसिद्धा अन्येऽप्यनुभावा ग्राह्याः ॥ -१५२५, १५२५- ॥
इति निर्वेदः
(सु०) ग्लानिं लक्षयति-व्याधिरिति । यत्र व्याधिः, वान्तिः, विरेकः, उपवासः, नियमः, तपः, मनस्तापः, अतिपानातिव्यायामसुरतानि, निद्राच्छेदः,
Scanned by Gitarth Ganga Research Institute