SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४४४ संगीतरत्नाकरः उत्साहविस्मयौ सर्वरसेषु व्यभिचारिणौ । शमः सर्वरसेष्वस्ति स्थैर्याचव्यभिचार्यसौ ॥ १५२२ ॥ अथ व्यभिचारिणां निर्वेदादीनां हि लक्षणम् । आक्रोशनमधिक्षेपो व्याधिक्रोधौ च ताडनम् ॥ १५२३ ॥ दारिद्रयमिष्टविरहः परद्धेश्च दर्शनम् । नीचेष्विति विभावाः स्युरुत्तमे स्वपमाननम् ॥ १५२४ ॥ तत्त्वबोधश्च यत्र स्यादनुभावास्तु रोदनम् । इतरेष्वष्टसु योग्यतया व्यभिचारित्वम् । तथा विस्मयस्याभूत एव स्थायिस्वमितरेषु व्यभिचारित्वमिति सर्वशब्दार्थः संकोचनीयः । शमः सर्वरसेष्वस्तीति । अयमर्थः-लोके शृङ्गारादिप्वष्टसु मध्ये यं कंचन रसमनुभवत एव पुंसो जन्मान्तरसुकृत विशेषवशाच्छम उत्पद्यत इति तत्तद्रससंबन्धाच्छ. मस्य सर्वरसेप्वस्तित्वमिति । ततः शान्ते शमः स्थायी भवतु । अन्यत्र व्यभिचारी भवत्वित्याशङ्कायामाह-स्थैर्याचव्यभिचार्यसाविति । असौ शमस्तु स्वतो विषयवैमुख्यात्मकः सन्नुत्पन्नः स्थैर्यात्पुनर्विषयाभिलाषाभावेन वासनायाः स्थिरत्वात्कदाचिदव्यभिचार्येव । शान्ते नित्यं स्थाय्यवेत्यर्थः । यस्तु प्रथममुत्पन्नोऽपि पुनरपि मनसो विषयाभिमुखतया निवर्तते, स तूक्तलक्षणः शम एव न भवति । किं तु शमाभास एव । अत्र स्वरूपसत एव रत्यादेः स्थायित्वं संचारित्वं च विचार्यते, न स्वाभासस्येति सर्वमवदातम् ॥ १५२१, १५२२ ।। इति नवरसलक्षणम् (क०) पूर्व रसलक्षणे रसं प्रति निमित्तकारणत्वेन विभावा उक्ताः। रसस्य कार्यत्वेनानुभावा अप्युक्ताः । रसोपादानकारणत्वेन स्थायि Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy