________________
aar नर्तनाध्याय:
४४३
रत्यादयः स्थायिनश्चेत्स्युर्भूयिष्ठविभावजाः ।। १५१९ ॥ स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः । रसान्तरेष्वपि तदा यथायोगं भवन्ति ते ।। १५२० ॥ यथा हि हासः शृङ्गारे रतिः शान्ते च दृश्यते । वीरे क्रोधो भयं शोके जुगुप्सा च भयानके ।। १५२१ ॥
( क ० ) रत्यादीनां स्थायित्वे संचारित्वे च व्यवस्थापकं कारणभेदं दर्शयति — रत्यादय इत्यादि । रत्यादयो नवापि । भूयिष्ठविभावजाचेदिति । भूयिष्ठाश्च ते विभावाश्च आलम्बनोद्दीपनरूपाः । तैर्जाताश्चेस्थायिनः स्युः । दृढसंस्कारवत्तया स्थिरा भवन्ति । त एव रत्यादयः स्तोकैरल्पैर्विभावैरुत्पन्नाश्चेत् । अभिभूत संस्कारवत्तया व्यभिचारिणो भवन्ति । क्षणिका भवन्तीत्यर्थः । रसान्तरेष्वित्यादि । ते रत्यादयः । तदा अल्पविभावजत्वेन व्यभिचारित्वे । रसान्तरेषु रत्यादीनां स्थायित्वे प्रतिनियतेभ्यः शृङ्गारादिभ्योऽन्येषु । यथायोगं योगमनतिक्रम्येत्यर्थः । यस्मिन् रसे रत्यादिषु यः संचारी भवितुं योग्यः, स एव तत्र वर्णनीय इत्यर्थः ॥ ॥ - १५१९, १५२० ॥
(सु० ) रत्यादीनां स्थायित्वे संचारित्वे च व्यवस्थापकमाह - रत्यादय इति । भूयिष्ठाः विभावा आलम्बनोद्दीपनरूपाः, तैर्जाताश्चेत् स्थायिनो भवन्ति । तएव रत्यादयः स्तोकः अल्पैः विभावैर्जाताश्चेत् व्यभिचारिणो भवन्ति । ते रत्यादयः रसान्तरेष्वपि यथायोगं भवन्ति । उक्तमर्थं विवृणोति - यथा हीति । अन्यत्सुगमम् ॥ - १५१९ - १५२२ ॥
इति नवरसलक्षणम्
(क) यथायोगशब्देनोक्तमर्थं विवृणोति -- यथा हीत्यादि उत्साहविस्मयौ सर्वरसेषु व्यभिचारिणविति । उत्साहस्य वीर एव स्थायित्वम् ।
Scanned by Gitarth Ganga Research Institute