________________
४४२
संगीतरनाकरः तदसदतिभेदौ हि भक्तिस्नेहौ नृगोचरौ ॥ १५१७ ॥ व्यभिचारित्वमनयोनार्योः स्थायिनौ तु तौ । अयुक्तविषया तृष्णा लौल्यं तद्धास्यकारणम् ॥ १५१८ ॥ अतो रसा नवैवेति मुनिना संप्रधारितम् ।
(क०) तद्रूषयति-तदसदित्यादि । हि यस्मात्कारणानगोचरौ केवलपुरुषविषयौ परस्परं पुरुषविषयावित्यर्थः । तादृशौ । भक्तिस्नेही रतिभेदाविति । तयोर्भावत्वमेवेत्यर्थः । भावत्वेऽपि स्थायित्वमिति यावत् । किं त्वनयोर्भक्तिस्नेहयो रतिभेदत्वेऽपि व्यभिचारित्वमेव । यथाह काव्यप्रकाशकार:-" रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तः" (काव्य०प्र०४-३५) इति । तर्हि भक्तिस्नेहयोः कुत्र स्थायित्वमित्याकाङ्क्षायामाह-नृनार्योरिति । ना च नारी च नृनायौं । तयोः परस्परविषयत्वे भक्तिनेहयो रतिभेदत्वेन शृङ्गार एव स्थायिनौ मतौ। यथा रामभद्रे सीताया भक्तिः । तस्यां च तस्य स्नेहश्च वर्ण्यते कविभिः । अतः तौ तयोः स्थायिनावेव रतिभेदतया मन्तव्यौ । अतो भक्तिस्नेहयोरपि रतावन्तर्भावान्न पृथप्रसत्वमिति भावः ।। -१५१७, १५१७. ॥
(क०) लौल्यस्यापि हासेऽन्तर्भाव वक्तुं तत्स्वरूपमाह-अयुक्तविषयेत्यादि । अयुक्तविषया; असंभाव्यमानवस्तुविषया तृष्णा लौल्यमित्युच्यते । तत् । लौल्यं हास्यकारणं हास्यस्य विभावो भवति । यथा सीताविषया रावणस्य तृष्णा कविभिर्वर्णिता सती श्रोतृणां हास्यं जनयति । अतः तस्या न पृथग्रसत्वमिति भावः । निगमयति-अतो रसा नवैवेति । तत्राचार्यसंमतिमाह-इति मुनिना संधारितमिति ॥ -१५१८, १५१८॥
Scanned by Gitarth Ganga Research Institute