________________
सप्तमो नर्तनाध्यायः स्वभावाभिनयाः पूर्वमाङ्गिका ये निरूपिताः ॥ १५१४ ।। ते शान्तविषया यस्माच्छान्तः प्रकृतिरात्मनः। विहाय विषयौन्मुख्यं निजानन्दस्थितियतः ॥ १५१५ ॥ आत्मनः कथ्यते शान्तः स्वभावोऽसौ मतस्ततः। भक्ति स्नेहं तथा लौल्यं केचित्त्रीन् मन्वते रसान् ॥१५१६॥ श्रद्धार्द्रताभिलापांश्च स्थायिनस्तेषु ते विदुः ।
(क०) शान्तोचितानभिनयानाह– स्वभावाभिनयाः पूर्वमित्यादि। यस्मादेवमतः शान्तो नामात्मनः प्रकृतिः स्वभावः ॥-१५१४-१५१४॥
(क०) शान्तस्य स्वभावत्वं प्रतिपादयति-विहायेत्यादि । ॥ -१५१५-१५१५- ॥
इति शान्त: (क०) मतान्तरेण रसान्तराणि शङ्कते-भक्तिमित्यादि। श्रद्धाताभिलापानिति । भक्तिरसे श्रद्धा स्थायिनी । स्नेहरस आर्द्रता स्थायिनी। लौल्यरसेऽभिलाषः स्थायीति यथासंख्यं द्रष्टव्यम् || -१५१६-१५१६-॥
(सु०) मतान्तरेण शङ्कामाह-भक्तिमिति । भक्तिम् , स्नेहम् , लौल्यमिति त्रीन् रसान् केचिद् भेणु: । आहुश्च तेषां क्रमेण श्रद्धा, आर्द्रता, अभिलाषश्च स्थायीति । तदूषयति-तदसदिति । हि यस्मात् भक्तिस्नेहौ नृगोचरौ । तयोः स्थायित्वमाह-नृनार्योरिति । नृनार्योः स्त्रीपुंसयोः, परस्परविषयत्वे भक्तिस्नेहयो रतिभेदत्वेनात्र शृङ्गार एव स्थायिनौ मतौ । अतो भक्तिस्नेहयोरपि रतावन्तर्भावान्न पृथग्रसत्वमिति । लौल्यस्य हासेऽन्तर्भावमाह-अयुक्तेति । अयुक्तविषया असंभाव्यमानवस्तुविषया तृष्णा लौल्यमित्युच्यते । तद् हास्यकारणं भवति । अतो रसा नवैवेति भरतमुनिना संप्रधारितम् ॥ -१५१६-१५१८-॥
इति शान्तः
Scanned by Gitarth Ganga Research Institute