________________
४४०
संगीतरत्नाकर:
रत्यादिभेदविधुरो विषयोपप्लवोज्झितः ।। १५१२ ॥ परानन्दघनैकात्मनिर्भासः शान्त उच्यते ।
स्वतो विषयवैमुख्यं शमः स्थाय्यथवा भवेत् ।। १५१३ ।। नाट्यनिर्वाहको मध्ये मध्ये संचारिसंभवः ।
आह- उन्माद इत्यादि । रसान्तरोन्मादादस्य वैलक्षण्यमाह -परमानन्दरसपानसमुद्भव इति । समोचीनो विवोध इति । विबोधस्य समीचीनत्वमात्मविषयत्वम् । स्मृतिमत्योरप्यत्र तादृशत्वं मन्तव्यम् । यत्र तत्त्वबोधोत्थो निर्वेदः स्थायी भवति, असौ शान्तो भवेत् ॥ - १५०८१५११- ॥
(क०) शान्तरसस्य स्वरूपमाह - रत्यादिभेदविधुर इत्यादि । तस्य बाह्यविषयालम्बनत्वाभावाद्रत्यादिभेदविधुरत्वं द्रष्टव्यम् । विषयोपलोज्झित इति । विषयकृत उपप्लवः परिच्छिन्नत्वादिकं तेनोज्झितः । अत एव परानन्दघनैकात्मा; परमानन्देन घनो निबिडः, एकोऽभिन्न आत्मा स्वरूपं यस्येति स तथोक्तः । निर्मासो ज्ञानम् ॥ - १५१२, १५१२- ॥
माह-
(क०) मतान्तरेण स्थाय्यन्तरमाह - अथ वेति । शमस्य स्वरूप- स्वतो विषयवैमुख्यमिति । स्वत इति । तात्कालिका तितृप्त्यादिनिमित्तान्तरराहित्येनेत्यर्थ । केवलशमस्या भिन्नरूपत्वादभिनय भेदाभावे कथं नाट्यरसत्वमित्यत्राह - नाट्यनिर्वाहक इत्यादि ॥-१५१३, १५१३-॥
(सु०) शमस्य स्वरूपमाह - स्वत इति । शान्तोचितानभिमयान् लक्षयति – स्वभाव इति । यस्मादेवं तस्मात् शान्तो नामात्मनः प्रकृति: स्वभाव इति । शान्तस्य स्वभावमाह - विहायेति ॥ - १९१३, १९१३ - ॥
Scanned by Gitarth Ganga Research Institute