________________
४३९
सप्तमो नर्तनाध्यायः मन्दस्पन्दो बहिश्चित्तमानन्दाश्रुप्लुते दृशौ ॥ १५०८ ॥ रोमाञ्चकञ्चुका मूर्तिर्मोक्षशास्त्रार्थचिन्तनम् । ब्रह्मविद्योपदेशश्च संवादस्तत्त्वगोचरः ॥ १५०९ ॥ नासाग्रानुगते नेत्रे ज्ञानमुद्राप्रदर्शनम् । इत्यादयोऽनुभावाः स्युरिमे तु व्यभिचारिणः ।। १५१० ॥ उन्मादः परमानन्दरसपानसमुद्भवः । हर्षी धृतिः समीचीनो विवोधश्च स्मृतिर्मतिः॥ १५११॥ निर्वेदस्तत्त्ववोधोत्थः स्थायी शान्तो भवेदसौ ।
इत्यनुकरणम् । सोऽस्यास्तीति वारिणो विशेषणम् । भूरीति पृथक्पदं वा वारिविशेषणम् ॥ -१५०४-१५०७- ॥
(सु०) अथ शान्तस्य विभावानाह-संसारेति । यत्र संसारभीरुत्वम् ; विषयेषु दोषदर्शनम् , योगितङ्गः, शमदमक्षमाः, आध्यात्मविषयगोष्ठी:, तापसा:, तापसाश्रमाः, भूरिनिर्झरझांकारि वारि, तीर्थानि, तैर्थिकाः, परिशुद्धजलानि, नीवाराङ्कितसैकताः सरित:, शैवं वैष्णवं च क्षेत्रम् , विजनानि काननानि, विष्णुरुद्रभक्तियुक्ता जनाः, विष्णुभक्तिप्रभावाद्या विभावाः । अनुभावानाह-मन्देति । यत्र मन्दस्पन्दो बहिश्चित्तम् , आनन्दाश्रुपूर्ण नयने, रोमाञ्चसंचयकञ्चुका तनुः, मोक्षशास्त्रार्थचिन्तनम् , ब्रह्मविद्योपदेशनम् , तत्त्वविषयकसंवादः, नासाग्रन्यस्तनयनत्वम् , ज्ञानमुद्राप्रदर्शनमित्यादयोऽनुभावा: । व्यभिचारिण आह-- उन्माद इति । यत्र परमानन्दपरीवाहपानज उन्माद:, हर्षः, धृतिः, समीचीनविबोध:, स्मृतिः, मतिः, निर्वेद इत्येते व्याभिचारिणः । यत्र तत्त्वज्ञानजो निर्वेदश्च स्थायी भवति ; स शान्तः । मतान्तरेण स्थाय्यन्तरमाहअथवेति ॥ -१५०४-१५१२- ॥
(क०) अनुभावानाह-मन्दस्पन्द इत्यादि । व्यभिचारिण
Scanned by Gitarth Ganga Research Institute