SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४३८ संगीतरत्नाकरः किंचिदाकुञ्चिते नेत्रे स्पर्शः स्कन्धकपोलयोः ॥ १५०२ ॥ भ्रूक्षेपणं चानुभावा नूत्ना स्पर्शग्रहाश्रिताः । आनन्दजस्तथा दिव्यो द्विविधोऽभिदधेऽद्भुतः ॥ १५०३ ॥ आद्यो मनोरथावाप्तेर्दिव्यवस्तूद्भवोऽपरः । संसारभीरता दोषदर्शनं विषयेषु च ॥ १५०४ ।। योगिसङ्गो मुनीनां च श्रुताः शमदमक्षमाः । अध्यात्मविषया गोष्ठी तापसास्तापसाश्रमाः ॥ १५०५ ।। भूरिनिर्झरज्ञांकारि वारि तीर्थानि तैर्थिकाः । सरितः पुण्यपयसो नीवाराङ्कितसैकताः ॥ १५०६ ॥ शैवं च वैष्णवं क्षेत्रं विजनानि वनानि च । भक्ता भक्तिरसोन्मत्ताः शंकरस्य हरेरपि ॥ १५०७॥ विष्णुभक्तिमभावाद्या विभावा यत्र संमताः । (क०) उल्लुकसनस्य स्वरूपमाह-गात्रोद्भूननमित्यादि । स्पर्शग्रहाश्रितानुभावानाह-किंचिदाकुचिते इत्यादि । नूना अभिनवा रसान्तरेवण्यातयामा इत्यर्थः ॥ १५०२, १५०२ - ॥ (क०) अद्भुतस्य द्वैविध्यमाह-आनन्दज इत्यादि ॥ -१५०३, १५०३.॥ इत्यद्भुतः (क०) अथ शान्तरसस्य विभावानाह-संसारभीरुतेत्यादि । श्रुता मुनीनां शमदमक्षमा यत्र विभावा इति वक्ष्यमाणेन संबन्धः । भूरिभिरिझांकारीति । भूरिश्वासौ निर्झरश्च तस्य झांकारः । झांकार Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy