________________
सप्तमो नर्तनाध्यायः माया मिथ्याप्रकटितं रूपादिपरिवर्तनम् ॥ १५०० ॥ असंभाव्यस्य सत्त्वस्य दर्शनं विविधौषधैः । हस्तलाघवतो मन्त्रैरिन्द्रजालं प्रकीर्तितम् ॥ १५०१ ॥ गात्रोभूननमालादादत्रोल्लुकसनं मतम् ।
(सु०) अथाद्भुतस्य विभावानाह-दुर्लभेति । यत्र दुर्लभाभीष्टसंप्राप्तिः, खेचरणां विमानानां च विलोकनम् , मायानामिन्द्रजालस्य दर्शनम् , प्रासादोपवनादेरप्यपूर्वातिशायिनो दर्शनम् ; विद्याशिल्पाद्यतिशयितस्य पुरुषस्य दर्शनमित्येते विभावाः; नेत्रयोः विस्तारणम् , पुलकोद्गमः, हाहारवः, गद्गदं वचनं मुखे, हर्षगौचरौ स्वेदवेपथू, स्पर्शग्रहणमित्येते अनुभावाः; स्तम्भः; स्वेदः, रोमाञ्चः, प्रलयः, गद्गदं वचः, आवेगसंभ्रमौ, जाड्यमित्येते संचारिणः; विस्मयः स्थायी च भवति । तत्राद्भुतः ॥ -१४९४-१४९९- ॥
(क०) मायाया लक्षणमाह-मायेत्यादि ॥ -१५०० ॥
(१०) मायां लक्षयति-मायेति | मिथ्याप्रकाशितरूपादिपरिवर्तनं मायेत्युच्यते । इन्द्रजालं लक्षयति-असंभाव्येति । यत्र विविधैः औषधैः हस्तलाघवेन मन्त्रैश्च असंभाव्यस्य सत्त्वस्य दर्शनं क्रियते, तदिन्द्रजालम् । गात्रोभूननमिति । आह्वादात् गात्रोभूननमुलकसनं भवति । किंचिदाकुञ्चिते नेत्रे स्पर्शः, स्कन्धकपोलयोः भ्रूक्षेपणम् । अनुभावास्तु नूना अभिनवा: स्पर्शग्रहाश्रिता भवन्ति । अद्भुतस्य द्वैविध्यं लक्षयति-आनन्दज इति । आनन्दजः, दिव्य इति । तत्र मनोरथावाप्त्या आनन्दजो भवति । दिव्यवस्तूद्भवेन दिव्यो भवति ॥ -१५००-१५०३- ॥
इत्यद्भुतः
(क०) इन्द्रजालस्य लक्षणमाह-असंभाव्यस्येत्यादि ॥१५०१॥
Scanned by Gitarth Ganga Research Institute