________________
४३६
संगीतरत्नाकरः शुद्धधर्मोद्भवोऽत्यन्तशुद्धः संसारगोचरः । दुर्लभाभीष्टसंप्राप्तिः खेचराणां विलोकनम् ॥ १४९४ ॥ विमानानां च मायानामिन्द्रजालस्य दर्शनम् । प्रासादोपवनादेरप्यपूर्वस्यातिशायिनः ॥ १४९५ ॥ दृष्ट्वा तु पुरुषं विद्याशिल्पाद्यतिशयान्वितम् । एते यत्र विभावाः स्युरनुभावास्तु नेत्रयोः ।। १४९६ ।। विस्तारणं निर्निमेषमीक्षणं पुलकोद्गमः । साधुवादोल्लुकसने चानन्दाद्धारवस्तथा ॥ १४९७ ॥ गद्गदं वचनं स्वेदवेपथू हर्षगोचरौ। स्पर्शग्रहाश्रिताश्चानुभावाः संचारिणात्वमी ॥ १४९८ ॥ स्तम्भः स्वेदश्च रोमाञ्चः प्रलयो गद्गदं वचः । आवेगसंभ्रमौ जाड्यमिति यत्राथ विस्मयः ॥ १४९९ ॥ स्थायी तमद्भुतं प्राह श्रीमत्सोढलनन्दनः ।
विभावः । तस्माज्जातः शुद्धः । विष्ठादिरशुद्धो विभावः । तस्माज्जातो. ऽशद्धः । शुद्धधर्मोद्भव इति । शुद्धधर्मो निवृत्तिधर्मः । तत उद्तः । संसारगोचरः; हेयत्वेन संसारो विषयो यस्य स तथोक्तः । सोऽत्यन्तशुद्धो बीभत्सः ॥ १४९३, १४९३- ॥
इति बीभत्स: (क०) अथाद्भुतं लक्षयितुं तद्विभावानाह-दुर्लभाभीष्टसंपाप्तिरित्यादि । दुर्लभस्याभीष्टस्य वस्तुनः संप्राप्तिः । अनुभावानाह-नेत्रयोविस्तारणमित्यादि । साधुवादोल्लुकसने इति । साधुवादश्चोल्लुकसनं च ॥ -१४९४-१४९९- ॥
Scanned by Gitarth Ganga Research Institute