________________
नर्तनाध्यायः
स्वहेतूत्थः कृत्रिमश्च वित्रासितकमित्यपि ।
भयानक स्त्रिधा तत्र प्रथमोऽन्वर्थनामकः ।। १४८७ ॥ कृत्रिमस्तूत्तमकृतो गुर्वादीन् प्रत्यवास्तवः । विभीषिकार्थी बालादेर्वित्रासितकमिष्यते ।। १४८८ ॥ स्वभावाद्धातुदोषाद्वा वस्त्वत्यन्तामियात्मकम् । निषिद्धमतितृप्तेश्चारुचिरं मलमिश्रितम् ।। १४८९ ।। अनिष्टफलदानेन मुहुरुद्वेगदायकम् । स्याद्विभावोऽथानुभावा उत्कम्पो गात्रधूननम् ।। १४९० ।। संकोचनं च नासोष्ठहनूनां ष्ठीवनं तथा । पदन्यासोऽप्यनियतः पिधानं नासयोर्हशोः ।। १४९१ ॥ अथ संचारिणो मोहावेगापस्मारमृत्यवः । व्याधिश्व यत्र वीभत्सः स स्थायिन्या जुगुप्सया ।। १४९२ शुद्ध शुद्धोऽत्यन्तशुद्धो वीभत्सस्त्रिविधो मतः । आद्यौ रुधिरविष्ठादिशुद्धाशुद्धविभावजौ ।। १४९३ ॥
४३५
(क०) भयानकस्य त्रैविध्यमाह - स्वहेतूत्थ इत्यादि । विभीषिकार्य इति । बालादीन्प्रति भीषयितुं प्रयुक्तः ॥ १४८७-१४८८ ॥
(क०) अथ बीभत्सं लक्षयितुं तद्विभावानाह - स्वभावादित्यादि । अनुभावानाह — उत्कम्प इत्यादि । संचारिण आह— मोहेत्यादि । यत्रैते विभावादयो भवन्ति स स्थायिन्या जुगुप्सयोपलक्षितो बीभत्सो भवति ॥ १४८९ - १४९२ ॥
I
(क०) तस्य त्रेविध्यमाह — शुद्धोऽशुद्ध इत्यादि । आद्यौ शुद्धाशुद्धौ । रुधिर विष्ठादिशुद्धाशुद्धविभावजाविति । रुधिरादिः शुद्धो
Scanned by Gitarth Ganga Research Institute