SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४३४ संगीतरत्नाकरः स्त्रीणां च नीच प्रकृतेः पुंसः स्याद्वास्तवं भयम् ॥ १४८४ ॥ मध्यमे चोत्तमे पुंसि कृत्रिमं तदुदाहृतम् । स्वभावादभयौ तौ हि स्वामिनं च गुरुं प्रति ।। १४८५ ।। भयं विनयबोधाय दर्शयेता मताविकम् । नीचैः स्वभावबोधार्थ तत्कार्य मृदुचेष्टितैः || १४८६ ॥ मध्यमे उत्तमे च कृत्रिममपि भवति । गुरुसमीपे विनयबोधाय, कचिन्नीचत्वबोधाय च तत्कल्पनात् ॥ १४८४-१४९३-॥ इति भयानकः (क०) वास्तवस्याश्रयमाह - स्त्रीणामित्यादि । कृत्रिमस्याश्रयमाह - मध्यमे चेत्यादि ॥ - १४८४, १४८४- ॥ ( क ० ) मध्यमोत्तमाश्रयस्य भयस्य कृत्रिमत्वं प्रतिपादयतिस्वभावादभयावित्यादि । तौ मध्यमोत्तमौ । नीचैरिति । तदतात्त्विकं भयं नीचैः कर्तृभिर्मृदुचेष्टितैः करणैः स्वभावबोधार्थं नीचत्वप्रकाशनाय कदाचित्कार्यम् ॥ - १४८५-१४८६॥ (सु० ) अथ बीभत्सस्य विभावानाह - स्वभावादिति । यत्र स्वभावात् इन्द्रियाणां दोषाद्वा, वस्तुनोऽत्यन्ताप्रियात्मकत्वम्, निषिद्धमतितृप्तेश्चारुचिरं मलमिश्रितत्वम्, अनिष्टफलदानेन मुहुरुद्वेगदायकत्वमित्येते विभावाः ; हृत्कम्पगात्रघूननमुखनासोष्ठहनुकुञ्चनष्ठीवना नियतपादन्यासनासादृपिधानानीत्येते अनुभावा: । मोहः, आवेगः, अपस्मारः, मृत्युः, व्याधिश्वेत्येते व्यभिचारिण: ; जुगुप्सोपलक्षितबीभत्सः स्थायी भवति ; स बीभत्स: । स च त्रैविध्यं भवति — शुद्ध:, मशुद्ध:, अत्यन्तशुद्ध इति । आद्यो रुधिरादिलक्षितः शुद्धः ; मध्यो विष्ठादिलक्षितोऽशुद्धः ; अन्त्यो शुद्धधर्मोद्भवोऽत्यन्तशुद्धः, स च हेयत्वेन संसारगोचरो भवति ॥ - १४८५- १४९३- ॥ इति बीभत्सः Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy