________________
सप्तमो नर्तनाध्यायः शुष्कोष्ठतालुता कम्पहृदयत्वं विवर्णता । मुखस्य स्वरभेदश्च गात्रसंसो विलक्षता ॥ १४८१ ॥ कांदिशीकतया दृष्टेरनुभावा भवन्त्यमी । अथ स्तम्भादयोऽप्यष्टौ दैन्यमावेगचापले ॥ १४८२॥ शङ्कामोहावपि त्रासापस्मारमरणादयः । यत्र संचारिणः स्थायि भयं स स्याद्भयानकः ॥ १४८३ ।। वास्तवं कृत्रिमं चेति भयं द्वेधा निगद्यते ।
श्रवणानुसंधानैः संबन्धः कर्तव्यः । अनुभावानाह-अथ नेत्रकराघिण इत्यादि । प्राण्यङ्गत्वाद् द्वन्द्वैकवद्भावः । मुखस्य विवर्णतेत्यन्वयः । संचारिण आह-अथ स्तम्भादय इत्यादि । यत्र भयं स्थायि भवति, स भयानकः स्यात् ॥ १४७८-१४८३ ॥
___ (सु०) भयानकस्य विभावादीनाह-रक्ष इति । यत्र शून्यागारारण्यप्रवेशयोः विकृतध्वनेः परत्रासोद्वेगयोः श्रवणम् ; बन्धूनां वधबन्धयो: अनुसंधानमित्येवमाद्या विभावाः । मध्ये मध्ये नेत्रयोः, करयोः, अघ्रिणोश्च स्तम्भकम्पाः; तथा रोमाञ्चनिचयः; शुष्कोष्ठतालुत्वम् ; हृदयस्य कम्पत्वम् ; मुखस्य विवर्णत्वम् ; स्वरभेदश्च, गात्रसंसः; दृष्टेः कांदिशीकतया विलक्षत्वमित्येवमादयोऽनुभावाः स्युः । स्तम्भाद्यष्टकम् , दैन्यावेगचापलशङ्कामोहत्रासापस्मारस्मरणादयश्च व्यभिचारिणः । भयं च स्थायी भवति । तत्र भयानकम् ॥ १४७८-१४८३ ॥
(क०) तस्य भयस्य द्वैविध्यमाह-वास्तवमित्यादि ॥१४८३ ।।
(सु०) भयस्य द्वैविध्यं लक्षयति-वास्तवमिति । तच्च भयानक वास्तवं कृत्रिमं चेति द्विविधं भवति । स्त्रीणां कृत्रिमम् , पुंसस्तु वास्तवम् । तत्र
55
Scanned by Gitarth Ganga Research Institute