SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४३२ संगीतरत्नाकरः दानवीरो धर्मवीरो युद्धवीर इति त्रिधा ॥ १४७६ ॥ वीरो दानादयस्तत्र विभावाः प्रतिनायके । नायके त्वनुभावाः स्युर्वीरस्येति विदां मतम् ॥ १४७७ ।। रक्षःपिशाचभल्लूकप्रभृतेर्भाषणाकृतेः । दर्शनं श्रवणं शून्यागारारण्यप्रवेशयोः ।। १४७८ ।। विकृतस्य ध्वनेत्रासोद्वेगयोः परसंस्थोः। श्रवणं चानुसंधानं बन्धूनां वधबन्धयोः ॥ १४७९ ॥ एवमाया विभावाः स्युरथ नेत्रकराज्रिणः । मध्ये मध्ये स्तम्भकम्पो रोमाञ्चनिचयस्तथा ॥ १४८० ॥ रामरावणयोस्तत्र वीर एव । रौद्रस्त्वनुचिते भवेदिति । यत्र त्वेकः प्रबलोऽन्यो दुर्बलस्तदनुचितं युद्धम् । यथा भीमदुःशासनयोस्तत्र रौद्र एव ॥ ॥ १४७५, १४७५- ॥ (क०) वीरस्य त्रैविध्यमाह-दानवीर इत्यादि । तत्र त्रिविधे वीरे । प्रतिनायके दानादयो विभावा इति । प्रतिनायकेन कृतं दानं नायकाश्रयस्य दानवीरस्य विभावः । प्रतिनायककृतो धमों नायकाश्रयस्य धर्मवीरस्य विभावः । तथा प्रतिनायककृतं युद्धं नायकाश्रयस्य युद्धवीरस्य विभावो भवतीत्यर्थः । नायके त्वनुभावाः स्युरिति । नायककृतानि दानधर्मयुद्धानि तु वीरस्य नायकनिष्ठवीरस्यानुभावा भवेयुरिति विदां विदुषां मतं संमतम् ॥ -१४७६, १४७७ ॥ इति वीरः (क०) अथ भयानकं लक्षयितुं तद्विभावानाह- रक्षःपिशाचभल्लकमभृतेरित्यादि । शून्यागारारण्यप्रवेशयोरित्यादीनां यथायोगं दर्शन Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy