________________
सप्तमो नर्तनाध्यायः
प्रतापः पौरुषोद्भूता प्रसिद्धिः शत्रुतापिनी ।। १४७३ ।। कीर्तिः सुहृदुदासीनजनानन्दपदं यशः । सामदाने भेददण्डावित्युपायचतुष्टयम् || १४७४ ॥ स्थैर्यं त्वचलचित्तत्वं धैर्य गाम्भीर्यशालिता । शौर्य भवेदनुद्भूतभयं युद्धप्रवर्तनम् ।। १४७५ ।। वीरः स्यादुचिते युद्धे रौद्रस्त्वनुचिते भवेत् ।
४३१
(सु० ) विनयस्य स्वरूपमाह - इन्द्रियाणामिति । प्रतापस्य लक्षणमाह - प्रताप इत्यादि । कीर्ति लक्षयति- कीर्तिरिति । स्थैर्यधैर्ये लक्षयतिस्थैर्यमिति । स्थैर्य नाम चित्तस्याचालनत्वम्; धैर्यं तु गाम्भीर्यमिति । शौर्य लक्षयति-- शौर्यमिति । अनुद्रुतभयं यथातथा युद्धे प्रवर्तनं शौर्यमित्युच्यते । वीरं लक्षयति-वीर इति । यत्र नायकप्रतिनायकौ समबलौ स्याताम् ; तत्र वीरो भवति ; यथा रामरावणयोः । यत्र विषमबलौ भवेताम् ; तत्र रौद्रो भवति ; यथा भीमदुःशासनयोरिति विवेकः । वीरस्य त्रैविध्यं लक्षयति-दानवीरेति । दानवीरः, धर्मवीरः, युद्धवीर इति । तत्र विभावानाह - वीर इति । अन्यत्सुगमम् || १४७३-१४७७ ॥
इति वीर:
( क ० ) प्रतापस्य लक्षणमाह
-
- प्रताप इत्यादि ॥ - १४७३ ॥ (क०) कीर्तिलक्षणमाह- कीर्तिरित्यादि । सामादीनामित्यत्रादिशब्देन ग्राह्यानाह - सामेत्यादि || १४७४ ॥
(क०) स्थैर्यधैर्ययोर्लक्षणमाह - स्थैर्ये त्वचलचित्तत्वं धैर्य गाम्भीर्यशालितेति । शौर्यस्य लक्षणमाह - शैर्यं भवेदिति । उचिते युद्धे वीरः स्यादिति । यत्र नायकप्रतिनायकौ तुल्यबलौ तदुचितं युद्धम् । यथा
Scanned by Gitarth Ganga Research Institute