________________
४३०
संगीतरत्नाकरः सम्यग्विज्ञाय पाड्गुण्यप्रयोगो गीयते नयः ॥ १४७१ ॥ संधिश्र विग्रहो यानमासनं संश्रयस्तथा । द्वैधीभाव इति प्रोक्ता नीतिशास्त्रेषु षड्गुणाः ॥ १४७२ ॥
इन्द्रियाणां जयं प्राह विनयं शंकरपियः । वीरानुभावा भवन्तीत्यर्थः । व्यभिचारिण आह-अथ स्मृतिरित्यादि । यत्र चोत्साहः स्थायिभावो भवति धीरा विद्वांसस्तं वीरमूचिरे । उत्तमप्रकृतिध्वेवेति । मध्यमाधमपुरुषयोर्वीरो न जायत इत्यर्थः ।।-१४६७-१४७०-॥
(सु०) अथानुभावानाह-सामादीनामिति । सामादीनां चतुर्णामुपायानां विनियोगविषये, स्थैर्यधैर्ये च विज्ञत्वम् , यथोचितं शौर्यत्यागौ, भावगम्भीरं भाषणमित्येवमादयः सर्वे गर्वानुभावाः, गर्वस्य येऽनुभावाः, तेऽप्यत्र स्युः । व्यभिचारिण उदिशति-अथ स्मृतिरिति । औग्रयमावेगरोमाश्चावमर्शधृतिमतीत्येवमादयो भावा अत्र संचारिणो भवन्ति ॥ -१४६७-१४६९- ॥
(क०) वीरविभावत्वेनोक्तस्य नयस्य स्वरूपमाह-सम्यग्विज्ञायेत्यादि । षड्गुणा एव षाड्गुण्यम् ॥ -१४७१ ॥
(क०) प्रसङ्गात् षड्गुणानाह—संधिश्वेत्यादि ॥ १४७२ ॥ __(सु०) स्थायिनमाह-उत्साह इति । यत्र उत्साहः स्थायी भवति, तं पण्डिता वीरमित्याहुः । स च वीरोऽपि उत्तमप्रकृतिवेव जायते । न तु मध्यमाधमपुरुषयोः । वीरविभावितं नयं लक्षयति-सम्यगिति । षड्गुणा एव षाड्गुण्यम् । गुणान् लक्षयति-संधिश्चेति । संधिः, विग्रहः, यानम् , आसनम् , तथा संश्रयः, द्वैधीभाव इत्येते नीतिशास्त्रोक्ताः षड्गुणा भवन्ति ॥ -१४७०१४७२ ॥
(क०) विनयस्वरूपमाह-इन्द्रियाणामित्यादि ॥ १४७२- ॥
Scanned by Gitarth Ganga Research Institute