________________
४२९
सप्तमो नर्तनाध्यायः सामादीनामुपायानां यथास्वं विनियोजने ॥ १४६७ ॥ विज्ञत्वं स्थैर्यधैर्ये च शौर्य त्यागो यथोचितम् । भाषणं भावगम्भीरवाक्यस्येत्येवमादयः ॥ १४६८ ॥ सर्वे गर्वानुभावाश्चानुभावाः स्युरथ स्मृतिः ।
औग्यमावेगरोमाश्चावमर्शश्च धृतिर्मतिः ॥ १४६९ ।। एवंप्रभृतयो भावा यत्र स्युर्व्यभिचारिणः । उत्साहःस्थायिभावश्च धीरा वीरं तमूचिरे ॥ १४७० ॥ उत्तमप्रकृतिष्वेव पुरुषेष्वेष जायते ।
पुरुषार्थाः, तेषु । विस्मयो गर्वस्तदभावात् , संमोहश्चाज्ञानं तदभावात् , विषादो दुःखं तदभावाच्च हेतोर्यः कार्यतत्त्वविनिश्चयः, स वीरस्य विभावो भवति । एतेन विस्मयादियुक्तस्य कार्यतत्त्वविनिश्चयो न जायत इत्युक्तं भवति । इत्यादय इति । आदिशब्देन लोके वीरोत्पादकत्वेन येऽन्ये दृष्टास्ते ग्राह्याः । नटे काव्यसमन्विता इति । काव्यशब्देन वाचिकाभिनय उच्यते । तेन सह नटैरभिनीता इत्यर्थः ॥ -१४६४-१४६६-॥
(सु०) वीरस्य विभावान् लक्षयति-अविस्मयादीति । गर्वाभावोऽविस्मयः, तस्मात् ; अज्ञानं संमोहः, तस्मात् ; दुःखाभावोऽविषादः, तस्मात् हेतोः सतां धर्मार्थकामेषु यः कार्यतत्त्वविनिश्चयः । नयः, विनयः, कीर्तिः, पराक्रमणशक्तता, प्रतापः, प्रभुशक्तिश्च, दुर्धर्षप्रौढसैन्यता, मन्त्रशक्तिश्च, संपन्नधनाभिजनमन्त्रिता इत्येवमादयो वीरस्य विभावा भवन्ति । अत्रादिशब्देन लोके वीरोत्पादकत्वेन येऽन्ये दृष्टास्ते ग्राह्या भवन्ति ॥ -१४६४-१४६६-॥
(क०) वीरस्यानुभावानाह—सामादीनामित्यादि । सर्वे गर्वानुभावाश्चेति । व्यभिचारिभावस्य गर्वस्य येऽनुभावा वक्ष्यन्ते, ते सर्वेऽपि
Scanned by Gitarth Ganga Research Institute