________________
संगीतरत्नाकरः द्रष्टव्ये नाट्यनृत्ये ते पर्वकाले विशेषतः । नृत्तं त्वत्र नरेन्द्राणामभिषेके महोत्सवे ॥ १४ ॥ यात्रायां देवयात्रायां विवाहे प्रियसङ्गमे । नगराणामगाराणां प्रवेशे पुत्रजन्मनि ॥ १५ ॥
ब्रह्मणोक्तं प्रयोक्तव्यं मङ्गल्यं सर्वकर्मसु । चतुष्टयसंपन्नो मुमुक्षुरुच्यते । अलिष्टेष्टप्रदायके इति हेतुगर्मितं विशेषणम् । अक्लिष्टमिष्टं मोक्षः, तस्य प्रदायके यतो नाट्यनृत्ये अतस्ते मुमुक्षुणापि सर्वदा द्रष्टव्ये इति योजना । अयमभिप्रायः--नाट्यनृत्ययोरनुकरणात्मकत्वेनालीकत्वात्तन्निदर्शनेन लोकव्यवहारस्याप्यलीकत्वे भाव्यमाने सच्चिदानन्दस्वभावात्मकविषयं ज्ञानं दृढं भवति । विषयसुखाभिलाषिणस्तु किमुतेत्यपिशब्दार्थः । सर्वदा दर्शनासंभवेऽपि पर्वकाले विशेषतो द्रष्टव्ये इत्याहपर्वकाल इति । पर्वकाल उत्सवकालः ॥ -१०-१३- ॥
(सु०) नाट्यस्यावश्यंभावितया कीर्त्यादयोऽपि सिध्यन्तीत्याह-कीर्तीत्यादिना | कीर्तिः; यशः, प्रगल्भः ; प्रतिभा, तस्य भावः ; सौभाग्यम् ; सुभगत्वम् ; वैदध्यम ; चतुरत्वमेतेषां प्रवर्धनम् । औदार्यम् ; उदारस्वभावः; स्थैर्यम् ; कार्यस्याध्यवसायः ; धैर्यम् ; हर्षशोकयोः समानरूपत्वम् ; एषां विलासस्य च कारणं भवति । दुःखातिशोकनिर्वेदखेदानां विच्छेदकारणं भवति । अपि च ब्रह्मानन्दादप्यधिकमिदं नाटयं श्रेष्ठमित्यर्थः । अत एव नारदादीनां चित्तानि जहार । न किंचिदिति । इत: नाट्यादित्रितयादन्यद् दर्शनीयं श्रोतव्यं च लोके न दृश्यते । सर्वदेति | कृतकृत्येन मुमुक्षुणापि, अक्लिष्टेष्टप्रदायके; दुःखासंपृक्तं यत्सुखं तत्प्रदायके नाट्यनृत्ये द्रष्टव्ये इत्यर्थः । पर्वकाले ; महोत्सवकाले, ते विशेषतो द्रष्टव्य इति ॥ -१०-१३-।।
(क०) नाठ्यनृत्त्ययोः प्रयोगसमयमुक्त्वा नृत्तस्य प्रयोगसमयमाह-- नृत्तं त्विति ॥ -१४, १५- ॥
Scanned by Gitarth Ganga Research Institute