________________
सप्तमो नर्तनाध्यायः नाट्यादित्रितयस्यातः प्रपञ्चमभिदध्महे ॥ १६ ॥ नाट्यशब्दो रसे मुख्यो रसाभिव्यक्तिकारणम् । चतुर्धाभिनयोपेतं लक्षणावृत्तितो बुधैः ॥ १७ ॥ नर्तनं नाट्यमित्युक्तं स त्वत्राभिनयो भवेत् । काव्यबद्धं विभावादि व्यञ्जयन्यो नटे स्थितः ॥ १८ ॥
नृत्तस्य प्रयोगसमयमाह-नृत्तं
(सु०) नाट्यनृत्ययोः कालविशेषमुक्त्वा त्विति । स्पष्टोऽर्थः ॥ -१४, १५ ॥
(क०) नाट्यादीनां स्वरूपं वक्तुमाह-नाटयादीति । तत्र नाट्यशब्दस्य लक्षकतां वक्तुं तस्य मुख्यार्थतां दर्शयति-नाटयशब्दो रसे मुख्य इति । मुख्यः; वाचक इत्यर्थः । तस्य लक्ष्यार्थ दर्शयतिरसाभिव्यक्तीत्यादि । मुख्यार्थस्य रसस्य नर्तनभेदत्वासंभवान्मुख्यार्थबाधे सति, तस्य रसस्य व्यञ्जकत्वेन संबन्धिनश्चतुर्विधाभिनयोपेतस्य नर्तनविशेषस्य लक्ष्यार्थत्वात् तत्र च वर्तमानोऽयं नाट्यशब्दो लाक्षणिक इत्यर्थः । नाट्यविशेषणत्वेन प्रसक्तस्य चतुर्विधस्याभिनयस्य सामान्य लक्षणमाह-स वित्यादि । स इति वक्ष्यमाणः परामृश्यते । काव्यबद्धमिति । अत्र काव्यशब्येन नाटकादीनि रूपकाण्युच्यन्ते । तेषामेव नटाभिनेयार्थत्वात् । तत्र नाटकादौ कविना निबद्धं विभावादि; आदिशब्देन अनुभावसात्त्विकसंचारिस्थायिभावा गृह्यन्ते । विभावादि व्यञ्जयन् ; प्रकाशयन् , सामाजिकानाम् ; प्रेक्षकाणाम् ; निर्विघ्नां रससंविदम् ; निर्विघ्नां निरन्तरायां, तत्र व्यवधानमेवान्तरायः, अव्यवहितामित्यर्थः । रससंविदमानन्दानुभूति जनयन् , नटस्थितः; नटे स्थितो योऽर्थो विद्यते स त्वभिनयो भवेत् । तुशब्दोऽवधारणे, स एवेति । न तु चेष्टामात्रमित्यर्थः । अत्राभिनयव्यङ्ग्य
Scanned by Gitarth Ganga Research Institute